2023-04-06 02:50:55 by ambuda-bot
This page has not been fully proofread.
९५
द्वितीयस्सर्गः
.रुक्मिणीचिन्तनप्रतिपादनेन तदेकायत्तताप्रतीत्या विप्रलम्भशृङ्गारसंभावितासु
दशावस्थासु मनस्सङ्गो नामावस्थाविशेषो व्यज्यते । तदुक्तम् – " चक्षुःप्री-
तिर्मनस्सङ्गः संकल्पोऽथ प्रजागर : । अरति: संज्वर: कार्य लज्जात्यागो भ्रमो
मृतिः ॥" इति । " मनः सङ्गस्तु मनसस्तदेकायत्तता मता " इति च ॥ ३ ॥
३ ॥
घनाघनस्तत्कवरीभरच्छलश्वरीकरोति स्म पदं हृदन्तरे ।
विभोर्विचित्रं दृशि वाष्पवृष्टिभिर्विसृत्वरीभिः समभावि सत्वरम् ॥
घनाघनेति – तस्याः रुक्मिण्या: । कबरीभर इति केशपाश इति छल:
कपटो यस्य तादृशः । वनाधनः मेघः । विभोः कृष्णस्य । हृदन्तरे हृदयमध्ये । पदं
अवस्थानम् । चरीकरोति स्म अकरोत् । करोतेः यङ्लुगन्तालुट् । स्मयोगात्
भूतार्थता । बाष्पै: नयनसलिलैरेव वृष्टिभिः वर्षबिन्दुभिः कर्त्रीभिः । दृशि नयने,
विभोरित्यनुषज्यते । विसृत्वरीभिः प्रसरन्तीभिः । समभावि सम्बभूव । संपूर्वाद्भव-
तेर्लुङ् । रुक्मिणीकचभारस्मृतिमात्रेण भगवतो बाष्पवृष्टयः समभूवन्निति भावः ।
विचित्रं आश्चर्यम् । एकत्र मेघावस्थाने ततोऽन्यत्र वर्षोत्पत्तिरिति चित्रम् ।
तत्राप्यधोभागे मेवावस्थितिस्तदुपरिभागे वर्षोद्गतिरिति महदद्भुतमिति भावः ।
अवृष्टिरूपकार्यस्य तत्कारणवनावस्थानस्य च भिन्नदेशावस्थित्या असङ्गयलङ्कारः।
" विरुद्धभिन्नदेशत्वं कार्यहेत्वोरसंगतिः " इति लक्षणात् । स च कबरीभरच्छलः
इति कैतवापनुत्यनुप्राणित इति संकरः ॥
नन्वत्र विरोधालंकार एव स्यादिति चेत्, सत्यम् । असंगतेः
विरोधात्, विविक्तविषयत्वाभावेन विरोधस्य समानाधिकरणस्थले जातेः जात्यादि-
भिरित्यादेः विविक्तविषयतया, 'सावकाशनिरवकाशयो: निरवकाशं बलीय: '
इति न्यायेन निरवकाशाया असङ्गतेरेवात्रालंकारत्वमित्यलं विस्तरेण ॥ ४ ॥
वियोगधर्मोशुविवर्धितोष्मणो महीभृतस्तस्य मनस्तटे भ्रमन् ।
विदर्भजाकैशिकविभ्रमाम्बुढो व्यजृम्भयद्वाप्पभरं नु' निर्भरम् ॥५॥
वियोगेति – विदर्भजाया: रुक्मिण्या : कैशिक : केशसमूह: । "तद्बृन्दे
कैशिकं कैश्यम्" इत्यमरः । तदिति विभ्रमो भ्रान्ति: अपदेशो वा यस्य तादृशः
1 A. तु.