2023-04-12 09:56:28 by jayusudindra
This page has been fully proofread once and needs a second look.
संभावितमिति हेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा उक्तातिशयोक्तयुत्थापिता । अथवा "मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ " इति कोशात् अथशब्दस्य प्रश्नार्थकतया जजृंभिरे किमित्यर्थात् व्यञ्जकसमवधानात् वाच्यैव ॥ २ ॥
चिराय चिन्तोपधिदूतिकामुखात् समेत्य संकेतगृहं मनो विभोः ।
असौ परावेक्षणशङ्कयाबला बहिर्न गन्तुं चकमे बलादपि ॥ ३ ॥
चिरायेति–असौ पूर्वोदिता । अबला स्वच्छन्दनायकाभिगमनासमर्थेति
भावः । चिन्ता भगवत्कृतमनुचिन्तनमिति उपधि: कपटो यस्यास्तादृश्याः
दूतिकायाः सञ्चारिकायाः मुखात् द्वारात्, दूतीसंघटनानुरोधादिति भावः ।
सङ्केतगृहं सङ्केतस्थानभूतं एकान्तप्रदेशरूपमिति भावः । विभोः श्रीकृष्णस्य । मन:चित्तम् । समेत्य प्राप्य । मनसोऽदृश्यतया तदाश्रितस्या प्यदृष्टिगोचरत्वसंभवादिति भावः । चिराय बहो: कालादपि । बलादपि भावान्तरोपमर्देऽपीत्यर्थः । बहिः गन्तुं श्रीकृष्णचित्तादन्यत्रापसर्पितुम् । परावेक्षणशङ्कया अन्यदृष्टिगोचरीभवने त्रासेनेवेत्यर्थः । न चकमे नैच्छत् । "कमु कान्तौ " इति धातोरिच्छार्थादात्मनेपदे लिट् । भगवच्चित्तस्य रुक्मिणीरूपाद्विषयादन्यतः प्रापणेन विरहविनोदनार्थानन्तोदन्तसन्तानेऽपि हरिः सन्ततकान्तासञ्चिन्तनैकदन्तुरितान्तरङ्ग एवाभवदिति भावः । अत्र संयोगवृत्तितयाध्यवसितया विषयवृत्त्या भगवच्चित्तरूपं सङ्केतगृहमभ्या-
गताया निरन्तरानुवर्तनाध्यवसितं बहिर्गमनाभावं प्रति कविकल्पिताया:
प्ररावेक्षणशङ्काया हेतुत्वसंभावना हेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा । सा च
भगवन्मनसि सङ्केतसदनत्वारोपेण रुक्मिण्यामभिसारिकात्वारोपस्य गम्यतया एकदेशविवर्तिरूपकानुविद्धा । तच्च रूपकं चिन्तोपधिदूतिकेति कैतवापहूनुत्या, अतीन्द्रियतया सङ्केतार्हत्वरूपाभिप्रायगर्भविशेष्यवाचक- मन:पदविन्यासात् परिकराङ्कुरेण, बलादिति बलात्कारेभाषान्तर- सन्निपाते वा कारणे सत्यपि निर्गमतयाध्यस्तविस्मरणरूपकार्यानुत्पत्त्या विशेषोत्त्या, अबलेति तत्समर्थकपदसन्निवेशात् पदार्थहेतुककाव्यलिङ्गेन चानुविद्वेति संकरः । अत्र च रुक्मिणीविषयकरतिभावस्य भावान्तरा तिरस्कृतत्वेनान्यभावस्य स्वात्मभावोपनायकत्वप्रतीत्या चिरादपीत्युक्त्या
निरन्तरानुवृत्त्याङ्कुरितस्य रागस्य पल्लवितत्वरूपावस्था कृष्णस्य सन्तत -