This page has been fully proofread once and needs a second look.

आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः॥ तटस्थश्चेति विज्ञेयश्चतुर्थोद्दीपनक्रमः। आलम्बनगुणो रूपयौवनादिरुदाहृतः॥ तच्चेष्टा यौवनोद्भूतहावभावादिका मताः। नूपुराङ्गदहारादितदलङ्करणं मतम् ॥ मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥" इति ॥ चन्द्राद्या इत्यनेन पूर्वोदिता: पल्लवादयो गृह्यन्ते । तथाविधं निष्कुटं पश्यन् सन् । भीममहीशस्य भीष्मकनाम्नो महीशस्य राज्ञः नन्दनां रुक्मिणीम् । हृदन्तरस्य हृदयावकाशस्य सदनस्थानीयस्य अतिथिं प्रथमागतपूज्यपुरुषरूपम् । अतन्तनीत् अकरोत्, स्मृतिविषयी चकारेति भावः । अत्र शृङ्गारस्थायिनोरतिभावस्य उत्पादकं रुक्मिणीस्मरण मात्रमुद्दिष्टमिति भावस्याङ्कुरितत्वरूपोत्पत्यवस्था व्यज्यते । अत्र रुक्मिण्यामतिथित्वरूपणेन भगवन्मनसः सदनत्वस्य गम्यतया एकदेश विवर्तिरूपकमलङ्कारः । अस्मिन् सर्गे प्रायेण वंशस्थवृत्तम् । " जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ॥ १ ॥
 
वियोगसन्तापभरापनुत्तये विगाह्य शौरेरथ मानसोदरम् ।
कृताप्लवायां कृशमध्यमामणावुपर्युपर्युत्कलिका जजूंभिरे ॥ २ ॥
 
वियोगेति–अथ रुक्मिणीसञ्चिन्तनसमनन्तरम् । कृशमध्यमानां कृशाङ्गीनां
मणौ श्रेष्ठायां रुक्मिण्यामित्यर्थः । शौरे: कृष्णस्य । मानसं मन एव मानसा- ख्यं सरः तस्य उदरं मध्यदेशम् । विगाह्य प्रविश्य । वियोगेन विरहेण कृष्णासमागमरूपेण संजातस्य सन्तापभरस्य तापातिशयस्याल्पशीतोप- चारा द्यनपोह्यस्येत्यर्थः । अपनुत्तये व्यपोहनाय निवृत्तये किलेति भावः । कृताप्लवायां विहितगाढमज्जनायां सत्याम् । "समे आप्लाव आप्लव: " इत्यमरः । भगवता कृतं रुक्मिणीविचिन्तनमेव तयैव स्वयमाचरिततापाप- नोदार्थकगाढावगाहनतयाध्यवसीयते । उपर्युपरि, प्राचुर्ये द्विरुक्तिः । उत्कलिका: उत्कण्ठा एव ऊर्ध्वोद्गताः कलिका: कोरका: जलबिन्दवः । "उत्कण्ठोत्कलिके समे " इत्यमरः । जजृंभिरे उदभवन् किमिति भावः । "जृभी गात्रविनामे " इति धातोरात्मने पदे लिट् । अत्र भगवतः उत्कण्ठाया: श्लेषमूलाभेदातिशयोक्तिलब्धमुद्गतसलिलबिन्दुसन्तानं प्रति भगवत्कृत- रुक्मिणीसंस्मरणाध्यवसितं तापोपशमनार्थकं मानसपदश्लेषमूलातिश- योक्तिसंपादितमानससरःप्रवेशपूर्वकरुक्मिणीकृतमाप्लावनमहेतुरेव हेतुतया