This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
९३
 
आलम्बन गुणश्चैव तच्चेष्टा तदलंकृतिः ॥ तटस्थश्चेति विज्ञेयश्चतुर्थोद्दीपनक्रमः
आलम्बनगुणो रूपयौवनादिरुदाहृतः ॥ तच्चेष्टा यौवनोद्भूतहावभावादिका मताः
नूपुराङ्गदहारादितदलङ्करणं मतम् ॥ मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥"
इति ॥ चन्द्राद्या इत्यनेन पूर्वोदिता: पल्लवादयो गृह्यन्ते । तथाविधं निष्कुटं
पश्यन् सन् । भीममहीशस्य भीष्मकनाम्नो महीशस्य राज्ञः नन्दनां रुक्मिणीम् ।
हृदन्तरस्य हृदयावकाशस्य सदनस्थानीयस्य अतिथिथिं प्रथमागतपूज्यपुरुषरूपम् ।
अतन्तनीत् अकरोत्, स्मृतिविषयी चकारेति भावः । अत्र शृङ्गारस्थायिनो
रतिभावस्य उत्पादकं रुक्मिणीस्मरण मात्रमुद्दिष्टमिति भावस्याङ्कुरितत्वरूपोत्पत्य-
वस्था व्यज्यते । अत्र रुक्मिण्यामतिथित्वरूपणेन भगवन्मनसः सदनत्वस्य
गम्यतया एकदेश विवर्तिरूपकमलङ्कारः । अस्मिन् सर्गे प्रायेण वंशस्थवृत्तम् ।
" जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ॥ १ ॥
 
"
 

 
वियोगसन्तापभरापनुत्तये विगाह्य शौरेरथ मानसोदरम् ।

कृताप्लवायां कृशमध्यमामणावुपर्युपर्युत्कलिका जजूंभिरे ॥ २ ॥
 

 
वियोगेति–अथ रुक्मिणीसञ्चिन्तनसमनन्तरम् । कृशमध्यमानां कृशाङ्गीनां

मणौ श्रेष्ठायां रुक्मिण्यामित्यर्थः । शौरे: कृष्णस्य । मानसं मन एव मानसा- ख्यं
सरः तस्य उदरं मध्यदेशम् । विगाह्य प्रविश्य । वियोगेन विरहेण कृष्णासमा -
गमरूपेण संजातस्य सन्तापभरस्य तापातिशयस्याल्पशीतोप- चारा द्यनपोह्यस्ये-
त्यर्थः । अपनुत्तये व्यपोहनाय निवृत्तये किलेति भावः । कृताप्लवायां
विहितगाढमज्जनायां सत्याम् । "समे आप्लाव आप्लव: " इत्यमरः । भगवता कृतं
रुक्मिणी विचिन्तनमेव तयैव स्वयमाचरिततापाप- नोदार्थकगाढावगाहनतयाध्यव-
सीयते । उपर्युपरि, प्राचुर्ये द्विरुक्तिः । उत्कलिका: उत्कण्ठा एव ऊर्ध्वोद्गताः
कलिका: कोरका: जलबिन्दवः । "उत्कण्ठोत्कलिके समे " इत्यमरः । जजूंजृंभिरे
उदभवन् किमिति भावः । "जृभी गात्रविनामे " इति धातोरात्मने पदे लिट् ।
अत्र भगवतः उत्कण्ठाया: श्लेषमूला भेदातिशयोक्तिलब्धमुद्गत सलिलबिन्दुसन्तानं
प्रति भगवत्कृत- रुक्मिणी संस्मरणाध्यवसितं तापोपशमनार्थकं मानसपदश्लेष-
मूलातिश- योक्तिसंपादितमानससरःप्रवेश पूर्वक रुक्मिणीकृतमा प्लावनमहेतुरेव हेतुतया