This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
अथ च यूनोः परस्परालोकनश्रवणस्मरणादिना समुद्भूतस्य शृङ्गारस्थायिनो
रतिभावस्याङ्कुरितत्वपल्लवितत्वकोरकितत्वकुसुमितत्वादिना क्रमेण रसतापत्तेस्तथाविधं भगवतो रुक्मिणीगोचरं रतिभावं क्रमश: प्रपञ्चयति-
 
अथ स्मरोद्दीपनमात्मनिष्कुटं[^1] विलोचनासेचनकं विलोकयन् ।
अतन्तनीदेष हृदन्तरातिथिं मधुद्विषन् भीममहीशनन्दनाम् ॥ १ ॥
 
अथेति – अथ दारुकवचनानन्तरम् । एष मधुद्विषन् मधुनाम्नो दानवस्य
संहारी हरिः । द्विषोऽमित्र इति " द्विष अप्रीतौ " इति धातोर्लटः शतृप्रत्यय:। जातिवाचकत्वात् सन् देवदत्त इतिवत्साधुत्वम् । अत्र मधुशब्दश्लेषेण वसन्तविद्वेषीति लभ्यते । तेन तात्कालिकी रुक्मिणीविषयिणी विरहावस्था व्यज्यते । विलोचनयोः नयनयोः आसेचनकं अपर्याप्तानन्ददायकम् । "तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् " इत्यमरः । स्मरस्य मदनस्य उद्दीपनं प्रज्वलनं ददाति वितरतीति तादृशं मदनोद्रेककारकमिति यावत् । आत्मनः स्वस्य निष्कुटुं गृहोद्यानम् । यद्वा स्मरं मदनं उद्दीपयन्ति शृङ्गार रसपरिपोषणेनाभिवर्धयन्तीति स्मरोद्दीपनानि उद्दीपनविभावरूपतया प्रसिद्धानि पल्लवकुसुमपरभृतषट्चरणमरन्दमन्दपवनादिविजृम्भणानि ददातीति तादृशं निष्कुटमित्यर्थः ॥ तदुक्तम् - " विभावैरवुभावैश्च सात्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायीभावो रसः स्मृतः ॥ विभावः कथ्यते तत्र रसोत्पादनकारणम् । आलम्बनोद्दीपनात्मा स द्विधा हृदयंगम: ॥ स्थाय्युदेति यदालम्ब्य तदालम्बनमुच्यते ।
 
[^1] A. स्मरोद्दीपनदाननिष्कुटम् .