This page has not been fully proofread.

९०
 
रुक्मिणीकल्याणे सव्याख्याने
 
तनु-
66
 
मानस्य अन्यावलोकनादिजनितक्रोधस्य भिदां भेदनम् । तनोति रचयति ।
विस्तारे " इति धातो: कर्तरि लट् । चम्पकमयैः बाणैः मानिनीनां महाभीतिमुद्भाव्य
सत्वरं नायकैः सह संघटयतीति भावः । अत्र यद्यपि, "अरविन्दमशोकं च चूतं
च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥" इति प्रसिद्ध्या
उक्तपुष्पपञ्चकातिरिक्तस्य चम्पकस्य मदनसायकत्वं विरुध्यति, तथापि मदनस्य
कुसुमेषुत्वप्रसिद्ध्या सामान्यतः सर्वकुसुमेषु प्राप्तस्य मदनबाणत्वस्य कुसुम-
विशेषपरतया संकोचे प्रमाणाभावेन सौभाग्यसौकुमार्यसौरभ्यादिना सर्वेन्द्रि-
याह्लादकानां मदनोद्रेककरत्वाविशेषेण सर्वेषामेव कुसुमानां मदनसायकत्व-
मवसीयते । अरविन्दादीनां पञ्चानामभिधानं तु सलिलोद्भूतानां दिवाविकासिना-
मुपलक्षकतया पद्मस्य तथा रात्रावुदितानां संग्रहायेन्दीवरस्य, फलमन्तरा
पुष्पमात्रोत्पादकानां संग्रहायाशोकस्य, फलोपहितानामुपसंग्रहाय सहकारस्य,
लतागुल्मादिरूपाणां परिचायकतया नवमल्लिकायाश्च ग्रहणम् । अतो न चम्पकस्या-
नङ्गशरत्वहानिरिति मन्तव्यम् । अत्र मनस्विनीमानात्मकलक्ष्य भेदनरूपकार्यस्य
मौर्व्या बाणसन्धानरूपसामग्र्यपौष्कल्येऽपि निर्वहणाद्विभावनालङ्कारः । "विभा-
वना विनापि स्यात् कारणं कार्यजन्म चेत्" इति लक्षणात् । तस्य चार्थस्य
विचित्रशक्तिरिति पदार्थेन समर्थनात् काव्यलिङ्गं चेत्यनयोः सङ्करः ॥ १०४ ॥
पाद्यं पुष्परसैस्तवार्जुनकृतनीतेस्तनोत्यर्जुनः
 
पुन्नाग: पुरुषोत्तमस्य तनुते पुष्पोपहारक्रियाम् ।
दत्ते मन्मथ एष मन्मथपितुर्दिव्यैः फलैः प्रीणना-
मित्याकर्णितदारुकोक्तिरदधादीशः परां निर्वृतिम् ॥ १०५ ॥
 
1 इति श्रीदन्तिद्योतिदिवाप्रदीपाङ्कसत्यमङ्गलरत्नखेटश्रीनिवासदीक्षिततनयस्य
कामाक्षीगर्भसंभवस्य श्रीमदर्धनारीश्वरदीक्षितगुरुचरण सहजतालब्ध-
विद्यावैशद्यस्य श्रीराजचूडामणि दीक्षितस्य कृतिषु रुक्मिणी-
कल्याणनाम्नि काव्ये प्रथमः सर्गः ॥
 
पाद्यमिति –– ईश: श्रीकृष्ण: कर्ता । अर्जुन: इन्द्रद्रुः । "नदीसर्जो
वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः" इत्यमरः । अर्जुने फल्गुने विषये कृता विहिता
 
1 This colophon is missingin A. and G.