This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
८९
 
वकुळवृत्तान्तेन कामिनीकामुकवृत्तान्तपरिस्फूर्तिरूपसमासोक्तिगर्भा । पदेषु मुख-
त्वारोपात् वकुळेषु कामुकत्वारोपस्य गम्यमानतया एकदेश विवर्तिरूप केण
मधुपदश्लेषेण चानुविद्धेति सङ्करः । अमृतोपमानमित्यु- पमया संसृष्टिः ॥ १०२ ॥

 
मनस्विनीनां मदरागतैलैश्चमत्कृता चम्पकदीपपङ्क्तिः ।

प्रायेण यस्मिन्परितः षडङ्घ्रिपरंपरां सन्तमसं निरुन्धे ॥ १०३ ॥
 

 
मनस्विनी नामिति – यस्मिन् निष्कुटे । मनस्विनीनां प्रशस्तमनसां प्रणय-

परवशानां कामिनीनामिति भावः । मदरागै: मदातिशयादुद्भूतैः रागैः गीतिख-
रोद्गारैरेव तैलै: तिलोद्गतस्नेहैः । सर्वस्नेहपरिचायकं तैलपदं, तैः चमत्कृता उद्दीपिता,
कामिनीगानरूपदोहलसंवर्धितेति भावः । चम्पकानां चम्पककुसुमानाम् । " पुष्पे
जातिप्रभृतयः स्वलिङ्गा व्रीहयः फले " इति कोशात् । तेषामेव दीपानां पङ्क्तिः
माला । परितः समन्तात् । षडङ्क्घ्रीणां षट्पदानां परंपरां संहतिमेव । सन्तमसं
सर्वव्यापि तिमिरबृन्दं, समन्तात् तमः सन्तमसम् । "अवसमन्धेभ्यस्तमस: "
इत्यच्प्रत्ययः । "विष्वक् सन्तमसम्" इत्यमरः । प्रायेण प्रायशः । निरुन्धे
'
निरुणद्धि निवारयतीत्यर्थः । कथमन्यथा गाढान्धकारसदृक्षाः कुसुमान्तरेषु
दृष्टचरा इह न संपतेयुरिति भावः । समस्तवस्तुविषयकसावयवरूपकानुप्राणिता

गाढतमत्वेन रूपितानां तमसां प्रसरणाभावे चम्पकारोपितदीपपङ्क्ति हेतुकत्व-
संभावना हेतूत्प्रेक्षा प्रायेणेत्यनेन प्रतीयते ॥ १.०३ ॥
 

 
विना मिलिन्दालिगुणानुषङ्गचमत्क्रियां चम्पकपुष्पवाबाणैः ।

मनोभवो यत्र विचित्रशक्तिर्मनस्विनीमानभिदां तनोति ॥ १०४ ॥
 

 
विनेति – यत्र निष्कुटे । विचित्रा अद्भुता अपरिमेयेत्यर्थः, शक्तिः
सामर्थ्य- विशेषः यस्य तादृशः । अतिबलवदस्त्रजालानजेयानप्यल्पतरमुसुकुमार-
कुसुममयैरेव परिमितैः शरैररातीन् जयतीति भावः । मनोभवो मार: । मिलिन्दानां
षट्पदानां आलि: पङ्क्तिरेव गुणो मौर्वी तेन अनुषङ्गस्य संसर्गस्य मौर्या
व्यो शरसन्धानरूपस्येत्यर्थः, चमकित्क्रियां चातुर्यम्, धनुर्यन्त्रो- त्सर्जनेन वेगाधिक्य
संपादनमिति यावत् । विना अन्तरा तामनादृत्येत्यर्थः । चम्पकमधुकरयोः
विरोधेन मौर्वीभूतमधुकरैस्सह बाणीभूतानां चम्पकानां संसर्गस्यासंभावितत्वादिति
भावः। चम्पकपुष्पैरेव बाणैः सायकैः । मनस्विनीनां प्रशस्तमनस्कानां स्वीय
नायकानां अन्यावलोकनादि कृतमात्मधिक्करणमसहमानानां मानिनीनामित्यर्थः ।
 
12