This page has been fully proofread once and needs a second look.

८८
 
रुक्मिणीकल्याणे सव्याख्याने
 
नानां लतागृहाणां उदरेषु मध्यप्रदेशेषु यावता अन्तरेण सुरतान्तसुखप्रसुप्तव-
प्रसुप्तवनितानिःश्वासपवनः सिन्दुवारमुपस्पृशेत्तावत्तदन्तरगतलतानिकुञ्जे- ष्विति भावः ।
तान्ते सुरतावसाने नायिकाभिरतिकामनया स्वयमाचरित पुरुषायितसुरतावसाने ।
अत्र रतान्तावलम्बनं निःश्वासस्य दूरविसारित्व- लाभाय, न पुनः सुरतान्त-
निःश्वासस्यैव तद्दोहलत्वाभिप्रायेण । नितान्तं अत्यन्तं अतिदीर्घमिति भावः ।
निःश्वासं रेचकपवनोद्गमं जुषन्ति भजन्तीति तादृशी:, सुरतश्रमेणासकृदुत्कृष्टस्य
श्वासपवनस्य तदवसाने स्वच्छन्द विसरणेन निश्वासदैर्घ्यस्यानुभाविकत्वादिति
भावः । तादृशी: सीमन्तिनी: कामिनीः । अचिरं अनुपमेव सुरतावसानसम-
समयमेवेति भावः । उज्जिहानैः निर्गत्वरैः । उत्पूर्वाज्जिही तेरात्मने पदे लट:
शानच् । प्रसूनैः कुसुमैः वृन्ताधरविवृतदन्तपङ्क्तिसदृशैरिति भावः । हसन्ति
परिहसन्ती- वेत्यर्थः । स्वीयां शक्तिमपरिचिन्त्य मोहावेशेन कुतः पुंभावे
प्रवर्तितत्र्
प्रवर्तितव्यम्, कुतश्चेदृशायासोऽनुभोक्तव्य इत्यसमीक्ष्यकारिणं परिजहसुरिवेति
भावः। अत्र दोहलाधीनसिन्दुवारकुसुमोद्गमनक्रियायां सिन्दुवारकर्तृककामिनी-

चरितपरिहासक्रियास्वरूपोत्प्रेक्षा । अनुप्रासेन संसृष्टिः ॥ १०१ ॥
 

 
आस्वाद्य यस्मिन्नमृतोपमानं मुखासवं मुग्धविलोचनानाम् ।

वक्त्रेषु तासां वकुला मधूनि भूयः स्वयं पुष्पमुखैर्दिशन्ति ॥ १०२ ॥

 
आस्त्रावाद्येति – यस्मिन् निष्कुटे । वकुला: केसराख्या: पादपाः । मुग्ध-

विलोचनानां चपलनयनानां वनितानाम् । अमृतोपमानं सुधातुल्यम् । मुखासवं
मुखान्निस्सृतां सुरां वकुलानां दोहलीभूतमिति भावः । आस्वाद्य पीत्वा । भूयः
अनुपदम् । स्वयं स्वात्मना । पुष्पैः कुसुमैरेव मुखैः वदनैः । मधूनि मकरन्दान्येव
मधूनि आसवान् दिशन्ति प्रदिशन्ति । यथा हि विटसा- र्वभौमा वाराङ्गना-
वदनोत्सृष्टं मधु स्वयं आस्वाद्यानुपदमेव स्वमुखोपगृहीत- मासवं तासां मुखेष्व-
र्पयन्ति, एवं वकुला अपि दोहलदायिनीनां मुखासवमा- पीयानुपदोद्भूतकुसुमात्म-
कनिजवदनैरासवात्मकं मधु विसृजन्तीति भावः । अत्र दोहलोद्घृभूतकुसुमनिस्सृतानां
मरन्दानां तदृर्शनार्थोद्ग्रीविकोक्तानि तद्दोहलदायिनीवदनपतने वकुलकर्तृक
दोहलदायिनी प्रदिष्टमुखासव प्रतिप्रदानतादात्म्यसंभावना स्वरूपोत्प्रेक्षा प्रकृतनायिक।
 
: