This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
परिमलार्थागतानामित्यर्थः । भृङ्गीणां भ्रमरयोषितां सङ्गीतभङ्गयां गान- धोरण्या
मधुरतरमधुकरीझङ्कारात्मनेत्यर्थः । प्रायः प्रायेण । अनुकरोति अनुवदति गुरूच्चार
णानूच्चारणरूपतयाध्येतीवेति भावः । तेन दोहलात् कुसुमोत्पत्तावतिशैध्घ्यं
प्रत्याय्यते । अत्र कामिनीगानानुपदप्रवृत्ते दोहलोद्भूतकुसुमामोदमुदितमधुकरगीते
शिष्यविधया कामिनीगा नानू- च्चारणात्मकाध्ययनरूपतया संभावनात् स्वरूपोत्प्रेक्षा ।
वृत्त्यनुप्रासेन संसृष्टि: ॥ ९९ ॥
 
८७
 
'

 
[^1]
कान्तामणीनां नवकर्णिकाराश्श्रोतुं गिरश्श्रोत्रसुखायमानाः ।

प्रत्यग्रपुष्पस्तकावनम्राः प्रायेण मौलिलिं नमयन्ति यस्मिन् ॥ १०० ॥
 

 
कान्तेति–नवा: नूतनाः कर्णिकारा: द्रुमोत्पलाख्यास्तरवः । प्रत्यग्रैः

नवीनैः कर्णिकारदोहलीभूतवनितालापसमनन्तरोदितैरिति भावः । पुष्पस्तकेबकै:
कुसुमगुच्छे: अतिबहुलतया स्वाश्रयशाखाभारभूतैरिति भावः । अवनम्रा अवनताः
सन्तः । श्रोत्रसुखायमानाः श्रवणानन्दसन्दायिनी: । कान्तामणीनां वरस्त्रीणाम् ।
गिरः मधुरफणिती: दोहलतया प्रयोजिता इति भावः । श्रोतुं आकर्णयितुम् । प्रायेण
प्राय: । मौलिं शिरः शिरस्थानीया उच्चा: शाखा इति भावः । नमयन्ति प्रह्वीकुर्वन्ति ।
" णम प्रहृीह्वीभावे" इति धातोर्णिजन्तात् कर्तरि लट् । कुसुमभारावनताः कर्णिका-
रास्तत्कालोदित कामिनीव चश्श्रवणसौकर्याय किमु शिरो नमयन्तीत्यर्थः । अत्र
कुसुम भरकृतं शिरस्तयाध्यवसिताग्रशाखानमनं प्रति अफलस्य कामिनीवच - श्श्रवणस्य
फलत्वं तुमुना प्रतीयत इति फलोत्प्रेक्षा । तंदुत्थापितया कार्यकरणयोः पौर्वापर्य
व्यत्ययरूपयातिशयोक्त्या उच्चाकृतेर्जनस्याधो निकटगतप्रयोजितव चश्श्रवणे शिगे-
रोनमनस्य लोकस्वाभाविकतया स्वभावोक्त्या च सङ्करः ॥ १०० ॥
 
(6
 

 
उपान्तवल्लीभवनोदरेषु नितान्तनिश्वासजुषो रतान्ते ।

सीमन्तिनीर्यत्र हि सिन्दुवारा हसन्ति सूनैरचिरोज्जिहानैः ॥१०१ ॥

 
उपान्तेति – यत्र खलु निष्कुटे सिन्दुवारा: सिन्दुकतरवः कामिनी-
निःश्वास पवनदोहलत्वेन प्रसिद्धाः । उपान्ते निजसमीपदेशे विद्यमानानां वल्लीभव-

[^
1] This verse is missing in A'.