This page has been fully proofread once and needs a second look.

८६
 
रुक्मिणीकल्याणे सव्याख्याने
 
तादात्म्यसंभावना स्वरूपोत्प्रेक्षा कैतवापह्हूनुतिगर्भा उपमातिशयोक्ति- भ्यामनु-
विद्वेधेति संकरः ॥ ९७ ॥
 

 
यदृच्छया यत्र विलासवत्यो दृशा स्पृशन्त्यस्तिलकं जडं च ।

आपादमाचूडमनङ्गवाणैरातन्वते हन्त हटाठावकीर्णम् ॥ ९८ ॥
 

 

 
यदृच्छयेति – यत्र निष्कुटे । विलासवत्यः कामिन्य: । तिलकं क्षुरकाख्यं

कामिनीकटाक्षवीक्षणदोहलिकं वृक्षविशेषम् । जडं अचेतनं भावेङ्गिता- द्यपरिज्ञं च ।
यदृच्छया सामान्यदृष्ट्या । स्पृशन्त्यः विलोकयन्त्यः सत्यः तावन्मात्रेणेति भावः ।
आपादं चरणमारभ्य आचूडं शिरःपर्यन्तं आमूलाग्र शाखम् । अनङ्गबाणैः
मदनसायकैः कुसुमैरित्यर्थः । युवपक्षे साक्षान्मदन सायकैः हठात् बलात्
रभसेन च कामिनीकटाक्षपातस्यातिबलीयस्त्वादिति भावः । अवकीर्णं व्याप्तं
आतन्वते वितन्वन्ति । हन्त इत्यद्भुते । अचेतन स्यापि तिलकस्य सचेतनेष्वपि
भावानभिज्ञस्यापि जडम्य यादृच्छिकोदा सीनदृष्टिपातमात्रा दीदृशी दशा चेत्
किमु वक्तव्यं सहृदयरसिकविषये सविलासविलोकनं च व्यथयतीति । अतोऽति-
शयेनैव व्यथयेदतः कष्टतर मिति भावः । अत्र वर्ण्यानां तिलकानां अवर्ण्यानां
अनभिज्ञानां च कामबाणा भित्र्व्याप्तत्वरूपैकधर्मान्वयाद्दीपकालङ्कारः । "वदन्ति
वर्ण्यावर्ण्यानां धर्मेमैक्यं दीपकं बुवाधा: " इति तल्लक्षणात् ॥ ९८ ॥
 

 
प्रायः प्रियाल: प्रमदाजनानामाकर्ण्य '[^1]गीतीरमृतैकरीतीः ।

सद्यस्स्फुरत्कोरकसङ्गिभृङ्गीसङ्गीतभङ्ग्यानुकरोति यस्मिन् ॥ ९९ ॥
 

 
प्राय इति - यस्मिन् निष्कुटे । प्रियाल: राजादनो नाम वृक्षः । प्रमदाजनानां

योषिताम् । अमृतेन सुधया सह एका अभिन्ना तुल्येति यावत् रीतिः भङ्गी यासां
तादृशी: अमृतवदास्वादनीया इति भावः । गीती: गानालापध्वनीन् । आकर्ण्य
श्रुत्वा । सद्यः सपदि स्फुरद्भिः विकसद्भिः वराङ्गनागानध्वनेः प्रियालदोहलत्वेन
तादृशंगानाकर्णनसमकालमेव किसलयकोरककुसुमा- द्युत्पत्तौ पौर्वापर्यमनपेक्ष्य सद्यो
विकसद्भिरिति भावः । कोरकै: मुकुलैस्सह सङ्गिनीनां मिलितानां तदीयमधु-

[^
1] A. AI, G. रीती: