This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
'
[^1]कुरण्डशाखी कुटिलेक्षणानां [^2]कुचेषु कूलङ्कषतापशान्त्यै ।

गुलुच्छकुम्भोद्गलितैर्मरन्दैराभाति
 
८५
 
यस्मिन्नभिषिच्यमानः ॥ ९६ ॥
 

 
कुरण्डेति—यस्मिन् निष्कुटे । कुरण्डशाखी कुरवकद्रुमः । कुटिलेक्षणानां

कामिनीनाम् । कुचेषु स्तनेषु, स्वस्मै दोहलीभूतपरिष्वङ्गावसर परिज्ञात- सन्ता-
पेष्विति भावः । कूलङ्कषस्य गाढतरस्य तापस्य सन्तापस्य शान्त्यै अपनोदाय ।
गुलुच्छात् गुच्छादेव कुम्भात् कलशात् । "गुच्छो गुलुच्छ स्तबकः " इति
शब्दार्णवः । उद्गलितैः निस्सृतैः आवर्जितैरिति भावः । मरन्दै: मकरन्दैः ।
अभिषिच्यमानः अभिषेकं कुर्वाण इव । आभाति संभाव्यते । अत्र स्वाभाविकं
कुरवकस्य स्वदोहलीभूतकामिनी गाढालिङ्गन संभूतकलशाकारगुच्छान्मकरन्दधारा-
निस्सरणं प्रति परिष्वङ्गपरिज्ञात पयोधरप्रौढता पत्र्पव्यपोहनमफलमेव फलतया निर्दिष्ट-
मिति फलोत्प्रेक्षा । वृत्त्यनुप्रासेन संसृष्टि: ॥ ९६ ॥
 

 
हसन्मुखीरिन्दुमुखीस्सलीलमालोक्य पुन्नागगणो यदीयः ।

उत्फुल्लपुष्पस्तबकापदेशादुदीर्णमन्दस्मितवद्विभाति ॥ ९७ ॥
 
-
 

 
हसदिति – यदीय: यदृशनिष्कुटे भवः । पुन्नागानां केसरवृक्षाणां
पुरुष वर्याणां च । "उपमितं व्याघ्रादिभिः " इति उपमितसमासः । गण: समूहः ]

सलीलं सविलासं यथा भवति तथा । हसन्मुखी: सस्मितवदना: सभावहसित -
मालोकयन्तीरिति भावः । इन्दुमुखी: चन्द्रसदृशवदना: युवती: । विलोक्य

अभिवीक्ष्य । पुन्नागदोहलीभूतं मन्दहासमासाद्येति भावः । भावाविष्करण क्षम-
मन्दस्मितमुद्रीवेक्ष्येति च प्रतीयते । उत्फुल्लानां विकचानां पुष्पाणां स्तबको
गुच्छ इत्यपदेशात् कपटात् । उदीर्णं उद्भूतं मन्दस्मितं मन्दहासः यस्य तादृश
इव । विभाति भासते संभाव्यत इति भावः । कामिनीना- मनुरागद्योतकमन्दस्मित-
मालोक्य पुन्नागपदश्लेषप्रतीतः पुरुषवर्यगणोऽपि स्वाभिप्रायप्रपञ्चकमन्दस्मित-
मतनोत् किमिति भावः । अत्र दोहलीभूत वनितामन्दस्मितसमनन्तरसमुद्भूत-
कुसुमस्तबकोद्गमे पुन्नागपदश्लेषमूला- भेदाध्यवसितपुरुषर्षभकर्तृक मन्दहासोदञ्चन-
2 A,

 
[^1]
G. कुचोष्म-
1
रुन्द
[^2] A.
G. कुरुन्दचोष्म--