This page has not been fully proofread.

प्रथमस्सर्गः
 
चिकित्सा विशेषं ददति वितरन्तीति तादृशीनाम् । अशोकदोहलीभूतपादताड
नार्थमभ्यर्णमागतानामिति भावः । पादाम्बुजानां कमलवन्मूदुलानां चरणानाम् ।
बाधां व्यथाम्, तरुतलाघातजातामिति भावः । परिचिन्त्य विचिन्त्य । श्रेयसे
यतमानानामासामीशी व्यथास्माभिरेव निवार्येति निश्चित्येति भावः । संवाह-
नायेव उपमर्दनाय किल । संवाहनेन व्यथामुपशमयितुमेवेत्यर्थः । निजकरस्थानी-
यानि किसलानि प्रवालानि । "किसालं किसलं किसम्" इति श्रीहर्षः ।
दूरात् वृक्षाद्व्यवहितदेशे कामिनीचरणप्रान्त इति भावः । प्रसारयन्ते प्रेरयन्ति ।
प्रपूर्वात् "सृ गतौ " इति धातो: णिजन्तादात्मनेपदे लट् । अहो अद्भुतम् ।
अचेतनानामपि परदुःखासहिष्णुता प्रत्युपकारकारिता चेति महदद्भुतमिति
भावः । अत्र तरुताडनजनितव्यथानिमित्तकतयाध्यवसितकिसलयरूपकर दूर-
प्रसारणं प्रति दोहलदायिनी पादसंवाहनमफलमेव फलतया निर्दिष्ट मिति फलोत्प्रेक्षा
किसलयेषु करत्वरूपणेन अशोकेषु सानुकम्पपुरुषत्वरूपणस्य गम्यतया एक-
देशविवर्तिरूपकेणातिशयोक्त्या चानुविद्वेति सङ्करः ॥ ९३ ॥
 
अथाशोकद्वैविध्येऽप्ययमेव दोहलविशेष इत्यभिप्रायेणाह
 
***
 
८३
 
शङ्के पदाम्भोजतलाभिघातात्' कङ्केलिसालैरुपदर्शितानाम् ।
करस्फुरत्कान्तिमुषां दलानां कान्ताजनो यत्र करोति भङ्गम् ॥ ९४ ॥
 
शङ्क इति – यत्र निष्कुटे । कान्ताजन: स्त्रीलोकः । पदाम्भोजयोः स्वीय-
चरणकमलयो: तलेन अध:प्रदेशेन अभिवातात् अशोकदोहलरूपात् अकार्य-
कारिणः शिक्षारूपाच्चेति भावः । कडेलिसालै : रक्ताशोकैः । पादाहति-
-
दोहलितै: तस्करांच्छादनकर्मकारितया तत्प्रदर्शनाय पादाभिहतैश्चेति भावः ।
उपदर्शितानां प्रपञ्चितानां बहिर्विसृष्टानां च । करयोः स्वीयपाण्योः स्फुरन्तीः
प्रसरन्तीः कान्ती: प्रभा: संपद्रूपा: मुष्णन्ति अपहरन्ति सदृशीभवन्ति
चोरवृत्त्या गृह्णन्तीति च, तादृशानां सन्ततकरघृतानामप्यपहर्तृतया महा-
साहसिकानामिति भावः । दलानां अशोकपलवानाम्, चोराणामिति गम्यते ।
 
1 G. पदाम्भोजलताभिघातां,