This page has been fully proofread once and needs a second look.

८२
 
रुक्मिणीकल्याणे सव्याख्याने
कल्पलतावलीभिः ।
 
'
[^1]तत्तादृश/शामोतरङ्गिताभिरालिङ्गिताः
 
कल्पलतावलीभिः
उच्चावचा यत्र सुखोन्नतत्वप्रख्यातिभाजो विटपाः प्रथन्ते ॥ ९२ ॥
 

 
तत्तादृशेति - यत्र निष्कुटे । उच्चावचा: नानाविधाः । " उच्चावचन्नैक-

भेदम्" इत्यमरः । विटपा: शाखा: । अन्यत्र विटान् पान्तीति व्युत्पत्त्या विट सार्व-
भौमा इत्यर्थः । तत्तादृशैः अनिर्वचनीयैः आमोदै: परिमलैः हर्षैश्च तरङ्गि ताभिः
भरिताभिः । कल्पलतानां सुरतरुशाखानां आवलीभिः श्रेणीभिः । स्त्रीलिङ्गात् युवति-
पङ्क्तिभिरिति व्यज्यते । आलिङ्गिताः संवलिताः आश्लिष्टाश्च सन्तः । द्वारवती-
निष्कुटप्ररूढपादपानां स्वर्गादप्युच्छ्रिततया तत्रत्यनन्दनोद्यानगतकल्पवल्ली-
संवलनस्य संभावितत्वादिति भावः । सुतरां अत्यन्तं खे गगने उन्नतत्वेन
उच्छ्रिततया प्रख्यातितिं प्रसिद्धिं भजन्तीति तादृशाः । अन्यत्र सुखे आनन्दे
विषये उन्नतत्वेन प्रख्यातिं भजन्तीति तादृशाः । निरतिशय विषयोपभोगवत्त्वेन
प्रसिद्धा इति भावः । प्रथन्ते विख्याताः भवन्ति । अत्र प्रस्तुतेन पादपवृत्तान्त
वर्णनेनाप्रकृतकामुक-वृत्तान्तप्रतीत्या समासोक्तिरलङ्कारः ॥ ९२ ॥
 
-
 

अथ – "तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं कर्म

तद्दोहलमितीर्यते ॥" इति तथा — " अशोकश्चरणाहत्या वकुलो मुखंशीथुना

आलिङ्गनात्कुरवकस्तिलको वीक्षणेन च ॥ करस्पर्शेन माकन्दो मदरागेण

चम्पकः । सल्लापतः कर्णिकार: सिन्दुवारो मुखानिलात् ॥ गत्या प्रियालो

नितरां नमेरुश्श्वसितेन च । स्त्रीणां भजन्ति विकृतिं दशे दोहलभूरुहाः ॥ "

इत्यालङ्कारिकसंप्रदायप्रसिद्धान् दशविधान् दोहलवृक्षान् विविच्य प्रपञ्चयति--

 
दुराहो [^2]दोहलदायिनीनां पादाम्बुजानां परिचिन्त्य बाधाम् ।

संवाहनायेव शयानशोकाः प्रसारयन्ते किसलानि यत्र ॥ ९३ ॥
 
-
 

 
दूरादित्यादिना – यत्र निष्कुटे । अशोका: वञ्जुला: तरवः शोकरहिताश्चेति

व्यज्यते । तेन परकीयदुःखासहिष्णुत्वं लभ्यते । दोहलं अकालकुसुमाद्युत्पादक-

 
 
[^1]
G. तुत्तादृशैर्मो.
9

[^2]
G. दोहन,
 
.