2023-04-06 02:50:53 by ambuda-bot
This page has not been fully proofread.
८२
रुक्मिणीकल्याणे सव्याख्याने
कल्पलतावलीभिः ।
'तत्तादृश/मोढ़तरङ्गिताभिरालिङ्गिताः
उच्चावचा यत्र सुखोन्नतत्वप्रख्यातिभाजो विटपाः प्रथन्ते ॥ ९२ ॥
तत्तादृशेति - यत्र निष्कुटे । उच्चावचा: नानाविधाः । " उच्चावचन्नैक-
भेदम्" इत्यमरः । विटपा: शाखा: । अन्यत्र विटान् पान्तीति व्युत्पत्त्या विटसार्व-
भौमा इत्यर्थः । तत्तादृशैः अनिर्वचनीयैः आमोदै: परिमलैः हर्षैश्च तरङ्गिताभिः
भरिताभिः । कल्पलतानां सुरतरुशाखानां आवलीभिः श्रेणीभिः । स्त्रीलिङ्गात् युवति-
पङ्क्तिभिरिति व्यज्यते । आलिङ्गिताः संवलिताः आश्लिष्टाश्च सन्तः । द्वारवती-
निष्कुटप्ररूढपादपानां स्वर्गादप्युच्छ्रिततया तत्रत्यनन्दनोद्यानगतकल्पवल्ली-
संवलनस्य संभावितत्वादिति भावः । सुतरां अत्यन्तं खे गगने उन्नतत्वेन
उच्छ्रिततया प्रख्याति प्रसिद्धिं भजन्तीति तादृशाः । अन्यत्र सुखे आनन्दे
विषये उन्नतत्वेन प्रख्यातिं भजन्तीति तादृशाः । निरतिशय विषयोपभोगवत्त्वेन
प्रसिद्धा इति भावः । प्रथन्ते विख्याताः भवन्ति । अत्र प्रस्तुतेन पादपवृत्तान्त
वर्णनेनाप्रकृतकामुकवृत्तान्तप्रतीत्या समासोक्तिरलङ्कारः ॥ ९२ ॥
-
अथ – "तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं कर्म
तद्दोहलमितीर्यते ॥" इति तथा — " अशोकश्चरणाहत्या वकुलो मुखशीथुना ।
आलिङ्गनात्कुरवकस्तिलको वीक्षणेन च ॥ करस्पर्शेन माकन्दो मदरागेण
चम्पकः । सल्लापतः कर्णिकार: सिन्दुवारो मुखानिलात् ॥ गत्या प्रियालो
नितरां नमेरुश्श्वसितेन च । स्त्रीणां भजन्ति विकृतिं दशे दोहलभूरुहाः ॥ "
इत्यालङ्कारिकसंप्रदायप्रसिद्धान् दशविधान् दोहलवृक्षान् विविच्य प्रपञ्चयति--
दुराहो दोहलदायिनीनां पादाम्बुजानां परिचिन्त्य बाधाम् ।
संवाहनायेव शयानशोकाः प्रसारयन्ते किसलानि यत्र ॥ ९३ ॥
-
दूरादित्यादिना – यत्र निष्कुटे । अशोका: वञ्जुला: तरवः शोकरहिताश्चेति
व्यज्यते । तेन परकीयदुःखासहिष्णुत्वं लभ्यते । दोहलं अकालकुसुमाद्युत्पादक-
• G. तुत्तादृशैर्मो.
9 G. दोहन,