This page has been fully proofread once and needs a second look.

अथ तमेव निष्कुटं यत्तद्भ्यामेकान्वयेन प्रपञ्चयति चतुर्दशभिः निलीयेत्या-
दिभिः-
 
निलीय पुष्पस्तबकोदरेषु निष्पन्दपुष्पन्धयकैतवेन ।
निद्राति यस्मिन् निभृतं तरूणां छाया रुणोल्लङ्घनजाङ्घिकानाम् ॥९१॥
 
निलीयेति – यस्मिन् निष्कुटे । अरुणस्य सूर्यस्य । "मिहिरारुणपूषणः"
इत्यमरः । उल्लङ्घने अतिक्रमणे विषये जाङ्घिकानां प्रजविनाम् । ' तेन चरति' इत्यर्थे ठक्प्रत्ययः । "जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ " इत्यमरः । सूर्यमण्डलमतीत्य प्रवृद्धानामिति भावः । तरूणां पादपानाम् । छाया अनातपः । संज्ञानाम्न्याः सूर्यपत्न्या: प्रतिरूपिका छायाख्या सूर्यपत्नी च । सा च स्वभर्तुः सूर्यस्याभिमुखावस्थितिमपहाय यत्किञ्चिदन्तरतः कृत्वैव प्रवर्तमाना साम्प्रतं तादृशमन्तरमलभमानेति भावः। पुष्पस्तबकानां कुसुमगुलुच्छानां उदरेषु मध्यदेशेषु । निष्पन्दानां अचञ्चलानां वृक्षादबहिर्ग तानामिति भावः । पुष्पंधयानां मधुकराणां कैतवेन व्याजेन । पुष्प उपपदे "धेट् पाने " इति धातो: "उग्रंपश्येरंमदपाणिन्धमाश्च" इति चकारादनुक्त समुच्चयार्थादत्र खश्प्रत्यय: । "अरुर्द्वि षदजन्तस्य मुम्" इति पुष्पपदस्य मुमागमश्च । [निलीय] तिरोधाय । [निभृतं] निश्शङ्कं निर्भयं निरपत्रपं च सूर्योर्ध्वैगतोत्तानगुच्छगतायाः सूर्याभिमुख्यसंभावनाया एवाभावादिति भावः। निद्राति स्वपिति । निपूर्वात् "द्रा कुत्सायाम् " इति धातोर्लट् । तरूणां छायावश्यंभावे सूर्यस्य तरुषण्डादधोगमनेन भूमौ छायाया अदर्शनेन तेजोमयेषूपरितनलोकेष्वसंभवाच्च केयमगादिति विचारे तत्तच्छाया-
यास्तत्संबद्धाया एव दूरान्तिकयोर्गमनागमनयोः दृष्टचरत्वेन सर्वथा तरु- सम्बद्ध्यैव छायया भवितव्यमिति निश्चिते तदीयकुसुमस्तबकोदरगतेषु नीलतया छायासदृक्षेषु षट्पदेषु परिदृश्यमानेषु अन्यत्रोपचयापचय- शालितया दृष्टशक्तिस्तरुच्छायैव किमु कुसुमस्तबकमध्यगता विभातीति संभाव्यत इति भावः । छाया स्वपत्याभिमुख्य परिजिहीर्षया एकान्त- भूतकुसुमोदरेषु निलीना किमिति च व्यज्यते । अत्र षट्पदेषु तत्त्वम- पहूनुल्य छायात्वारोपादपह्लवालङ्कारः ॥ ९१ ॥