This page has been fully proofread once and needs a second look.

प्रमूनलूपादनखेन्दुकान्तिसन्दोहसंपर्कचमत्क्रियाभिः ।
निष्यन्द्रमानैर्निकटेन्दुकान्तैः[^1] नित्यं नदीमातृकतां भजन्तम्[^2] ॥८९॥
 
प्रसूनेति – प्रसूनल्वां कुसुमापचयकारिणीनां वधूनां पादनखाश्चरणनखरा
एव इन्दवः चन्द्रास्तेषां कान्तिसन्दोहेन किरणनिकुरुम्बेन संपर्कस्य संसर्गस्य चमत्क्रियाभिः शिलाभ्यः शीतलसलिलनिष्पादकशक्तिविशेषैः निमित्तभूतैः । नितरां अत्यन्तं स्यन्दमानैः द्रवद्भिः सङ्घशः सलिलधारामुद्गिर द्भिरिति भावः । निकटे अन्तिके वर्तमानैरित्यर्थः । तरूणामिति शेष: । सलिलसेचनसापेक्षतरुगुल्मलताशाल्यादिसविधालवालसंघटितैरिति भावः । इन्दुकान्तैः चन्द्रकान्तशिलाभिः । नित्यं अनवरतमहोरात्रम् ।चन्द्रा- सान्निध्येऽपि नखचन्द्राणां सदासन्निहितत्वादिति भावः । नदीमातृकतां वर्षधाराद्यनपेक्षया नदीजलाभिवृद्धसस्यफलादिसमृद्धताम् । भजन्तं प्राप्नुवानम् । निष्कुटमिति पूर्वेणान्वयः । अत्र पुष्पापचयकारिणीनां नखेन्दु किरणसङ्गसङ्गतोदकमात्रेण नदीमातृकत्वायोगेऽपितद्वर्णनादतिशयोक्तिः। रूपकोदात्ताभ्यां संसृष्टिः ॥ ८९ ॥
 
मन्दारपुष्पस्तबकापदेशैर्माङ्गल्यकुम्भैर्मधुवारिपूर्णैः ।
मारावनीनायकशेखरस्य वीराभिषेकं विदधानमारात् ॥ ९० ॥
 
मन्दारेति — मन्दारपुष्पाणां मन्दारकुसुमानां स्तबका गुछा इत्यपदेश:
कपटो येषां तादृशैः । मधूनि मकरन्दा एव वारीणि तैः पूर्णैः भरितैः । माङ्गल्यकुम्भैः मङ्गलार्थकलशैः । मङ्गलाधायकमन्त्रजालाभिमन्त्रितैरिति भावः । मारो मदन एव अवनीनायकशेखरः राजाधिराजशिखामणिः तस्य । वीराभिषेकं जगदेकवीरस्यैवाधिराज्यार्हतया वीराभिषेकपदेन पट्टबन्ध पूर्वकराज्याभिषेकस्यैव निर्देशः । आरात् समन्तात् । विदधानं कुर्वन्तमिव स्थितम् । निष्कुटमिति पूर्वणान्वयः । रूपकापह्लवाभ्यामनुविद्धा स्वरूपोत्प्रेक्षा व्यञ्जकाभावात् गूढा ॥ ९० ॥
 
 
 
[^1] G. निकटेषुकान्तैः.
[^2] A, G. दधानम्. It is worthy of note that A¹ notices the other reading also.