This page has been fully proofread once and needs a second look.

८०
 
रुक्मिणीकल्याणे सव्याख्याने
 
प्रमुमूनलूपादनखेन्दुकान्तिसन्दोहसंपर्कचमत्क्रियाभिः ।

निष्यन्द्रमानैर्निकटेन्दुकान्तैः'[^1] नित्यं नदीमातृकतां भजन्तम्[^2] ॥८९॥
 
-
 

 
प्रसूनेति – प्रसूनल्वां कुसुमापचयकारिणीनां वधूनां पादनखाश्चरणनखरा

एव इन्दवः चन्द्रास्तेषां कान्तिसन्दोहेन किरणनि कुरुम्बेन संपर्कस्य संसर्गस्य
चमत्क्रियाभिः शिलाभ्यः शीतलसलिलनिष्पादक शक्तिविशेषैः निमित्तभूतैः ।
नितरां अत्यन्तं स्यन्दमानैः द्रवद्भिः सङ्घशः सलिलधारामुद्गिर द्भिरिति भावः ।
'
निकटे अन्तिके वर्तमानैरित्यर्थः । तरूणामिति शेष: । सलिलसेचनसापेक्षतरु-
गुल्मलताशाल्यादिसविधालवालसंघटितैरिति भावः । इन्दुकान्तैः चन्द्रकान्त-
शिलाभिः । नित्यं अनवरतमहोरात्रम् । चन्द्रा- सान्निध्येऽपि नखचन्द्राणां सदा
सन्निहितत्वादिति भावः । नदीमातृकतां वर्षधाराद्यनपेक्षया नदीजलाभिवृद्ध-
सस्यफलादिसमृद्धताम् । भजन्तं प्राप्नुवानम् । निष्कुटमिति पूर्वेणान्वयः । अत्र
पुष्पापचयकारिणीनां नखेन्दु किरणसङ्गसङ्गतोदकमात्रेण नदीमातृकत्वायोगेऽपि
तद्वर्णनादतिशयोक्तिः । रूपकोदात्ताभ्यां संसृष्टिः ॥ ८९ ॥
 

 
मन्दारपुष्पस्तबकापदेशैर्माङ्गल्यकुम्भैर्मधुवारिपूर्णैः ।

मारावनीनायकशेखरस्य वीराभिषेकं विधानमारात् ॥ ९० ॥
 
-
 

 
मन्दारेति — मन्दारपुष्पाणां मन्दारकुसुमानां स्तबका गुछा इत्यपदेश:

कपटो येषां तादृशैः । मधूनि मकरन्दा एव वारीणि तैः पूर्णैः भरितैः । माङ्गल्य-
कुम्भैः मङ्गलार्थकलशैः । मङ्गलाधायकमन्त्रजालाभिमन्त्रितैरिति भावः । मारो मदन
एव अवनीनायकशेखरः राजाधिराजशिखामणिः तस्य । वीराभिषेकं जगदेकवीर-
स्यैवाधिराज्यार्हतया वीराभिषेक पदेन पट्टबन्ध पूर्वकराज्याभिषेकस्यैव निर्देशः ।
आरात् समन्तात् । विदधानं कुर्वन्तमिव स्थितम् । निष्कुटमिति
पूर्वणान्वयः । रूपकापह्लवाभ्यामनुविद्धा स्वरूपोत्प्रेक्षा व्यञ्जकाभावात्
गूढा ॥ ९० ॥
 
d
 

 
 
 
[^
1] G. निकटेषुकान्तैः.
 

[^
2] AT., G.
 
दधानम्. It is worthy of note that A¹ notices the other reading also.
 
दधानम्. It is worthy of note that A¹ notices the other