This page has not been fully proofread.

प्रथमस्सर्ग:
 
७९
 
हस्तौ पाणी हस्तावलंबनाय प्रहाखिलाङ्गेन दारुकेण प्रदिष्टाविति भावः ।
यस्मै तादृशश्च सन् । सर्वेषामखिलानामृतूनां वसन्तादीनां षष्णां सान्निध्येन
समसमयसन्निवेशेन समेधमानः प्रतिपदमभिवर्धमानः नेत्रयोर्नयनयोः उत्सवः
प्रीत्यतिशय: यत्र तादृशम् । निखिलोपभोगसाधनाखिलकालसंभावितसकलफल-
कुसुमादिसमृद्ध्या सर्वजनानन्ददायकमिति भावः । निष्कुटं निजगृहोद्यानम् ।
'गृहाररामस्तु निष्कुट: " इत्यमरः । आससाद अवाप । आपूर्वात् " षद्ल
विशरणगत्यवसादनेषु " इति धातोः कर्तरि लिट् । अत्र एकान्तकृतादर इत्यनेन.
नायिकाविषयकोत्कण्ठाभिव्यक्त्या सर्वर्तुसान्निध्येत्यादिनिष्कुटविशेषणेन च विर-
होद्रेककारित्वाभिव्यक्त्या परिकरालङ्कारः । वृत्त्यनुप्रासेन संसृष्टिः । तेन दामोदर
इति विशेषणार्थस्य प्रकृतानुपयोगादपुष्टार्थताशङ्का निरस्ता । तस्याः प्रासयमका-
दावदोषत्वस्य सर्वसम्मतत्वात् ॥ ८७ ॥
 
मन्दानिलान्दोलितमञ्जुक्ल्लीडोलाविहारोदितढोहलाभिः ।
भृङ्गीभिरङ्गीकृतमारवीर'सङ्गीतभङ्गीसरसोपकण्ठम् ॥ ८८ ॥
 
मन्देति – मन्दानिलेन मलयपवनेन आन्दोलिता चालिता मञ्जु:
मनोज्ञा वल्ल्येव लतैव डोला प्रेमोलिका । "डोलाप्रेङ्गोलिके समे " इत्यमरः ।
तस्यां विहारेण क्रीडया उदित: संजात: दोहलं उत्तेजनं यासां तादृशीभि: डोलिका
विहृतिद्विगुणितोत्साहाभिरिति भावः । भृङ्गीभिः भ्रमरयुवतीभिः कर्त्रीभिः ।
अङ्गीकृताभिः स्वीकृताभिः गातुमुपक्रान्ताभिरित्यर्थ: । मारो मदन एव
वीरः शूरः सर्वविजयित्वेन प्रख्यात इति भावः । तस्य सङ्गीतस्य
अषदानगीते: भङ्गीभिः धोरणीभिः सरस: रमणीय: श्रवणानन्दसन्दायीति
भाव: । उपकण्ठः अभ्यर्णदेश: यस्य तादृशम् । निष्कुटमाससादेति
पूर्वेणान्वयः । अत्र वल्ल्यां डोलात्वरूपणेन भृङ्गीषु नारीत्वरूपणस्य
गम्यतया एकदेशविवर्तिरूपकेण पूर्ववत् साभिप्रायतया परिकरेण वृत्त्यनुप्रासेन च
संसृष्टिः ॥ ८८ ॥
 
1 A'., G. मारशौर्य —