2023-04-06 02:50:52 by ambuda-bot
This page has not been fully proofread.
७८
रुक्मिणीकल्याणे सव्याख्याने
नायं नासाविति तदन्यनिषेधेन च निजनायकमभिव्यक्ति एवं भगवती श्रुति-
रपि यस्य स्वरूपं साक्षादभिधातुं अक्षमा सती अन्यवचनोपन्यासरूपतया
"भृगुर्वे वारुणिः" इति हेतूपन्यासरूपतया "यतो वा इमानि भूतानि " इति
अतथाभूतस्य तथात्वप्रतिपादनपूर्व "ब्रह्मपुच्छं प्रतिष्ठा " इत्यन्तेन " नेति नेति "
इत्याद्यन्यनिषेधमुखेन च कृच्छ्रात् द्योतयति तत्तादृशमिति भावः । परात् परिदृश्य-
मानप्रपञ्चादन्यस्माज्जगत्कारणमूर्तेरपि । परं अतिरिक्तमतिशयितं च । पृथिव्यादि-
प्रकृय़न्तनिखिलतत्त्वातीतं सच्चिदानन्दलक्षणब्रह्मात्मकमिति भावः । तं श्रीकृष्णम् ।
वर्णयितुं तत्वतः तत्स्वरूपमभिधातुम् । परिमेयाः अल्पतरा: वाचः येषां तादृ-
शाः । वयं मादृशाः कवयः । कथं प्रगल्भाः कुतः समर्था भवेम । न भवाम
एवेति भावः । तथाविधप्रतिभायाः काप्यसंभवात् न कोऽपि भगवद्गुणवर्णनपर्याप्तो
भवति । इत्थं सर्वेषामनधिकारित्वे श्रुतिमेव निदर्शनीकृत्य यत्किञ्चिञ्चरितप्रपञ्चनेन
प्राञ्चः कवयः कृतार्था जातास्तथाहमपि प्रवृत्त इत्याशयः । अत्र श्रुतेरसमर्थत्वो-
पन्यासादन्येषामसामर्थ्याभिधायिकैमुत्यार्थसंसिद्धिरूपार्थापत्त्या लब्धात्मा अन्यो-
न्यानानुरूप्यवर्णनरूपो विषमालंकारः । नवोढेवेत्युपमया संसृष्टिः ॥ ८६ ॥
अथ कविः प्राधान्येन प्रबन्धप्रतिपाद्यरुक्मिणी परिणयप्रयोजकीभूतां भगव-
तस्तद्विषयिणीमुत्कण्ठामुत्तरसर्गे सप्रपञ्चं प्रतिपिपादयिषुः आदौ चारमुखेन
परिज्ञातरुक्मिणीरूपलावण्य: तस्याः स्वस्मिन्ननुरागापरिज्ञानेन तद्विविदिषा-
तरङ्गितान्तरङ्गस्य उत्कण्ठाविनोदनार्थकविविक्तवासाभिलाषिणः श्रीकृष्णस्य
विप्रलम्भशृङ्गारोद्दीपकवसन्तमन्दपवनपरभृतषट्पदसर्वर्तुकुसुमादिसमृद्धप्रमदवनप्र-
वेशं चतुर्भि: कुलकेना-
कदाचिदेकान्तकृतादरोऽसौ दामोदरो दारुकदत्तहस्तः ।
सर्वर्तुसान्निध्यसमेधमाननेत्रोत्सवं निष्कुटमाससाद ॥ ८७ ॥
कदाचिदिति -- दामोदरः दाम रज्जु: यमलार्जुनभङ्गावसरे यशोदया
निबद्धमित्यर्थः । उदरे मध्यदेशे यस्य तादृशः । असौ कृष्णः । एकान्ते
रहसि, विविक्तदेशावस्थान इति भावः । कृतः विहितः आदर: अभि-
निवेशो येन तादृशस्सन् । दारुकेण दारुकनाम्ना सूतेन दत्तौ समर्पितौ