This page has not been fully proofread.

प्रथमस्सर्गः
 
अथ च तत्तादृशानां अनिर्वचनीयानां ऐश्वर्याणां धनकोशवसनाभरणादिनिखिलसं-
पदां निधानस्य विन्यासस्य सीमां परमस्थानभूताम्, वाङ्मनसातिशायिविविध-
विभवपरिपूर्णामित्यर्थः । तेनालकातिशायित्वं व्यज्यते । तां पूर्वोदितां द्वारवतीम् ।
आवसन् अधिवसन् । आङ्पूर्वाद्वसतेट: शतृप्रत्ययः । तद्योगे "उपान्वव्याङ्वस:"
इति तामित्यस्य कर्मसंज्ञायां कर्मणि द्वितीया । त्रिलोकीं त्रैलोक्यं अखिलानि भुवना-
नीति भावः । यद्वा लोकशब्दस्य जनपरतया त्रिविधानां शत्रुमित्रोदासीन
तया प्रसिद्धानां लोकानां जनानां समाहारः, तामित्यर्थः । अवैषम्येण सर्वानिति
भाव: । रक्षोभयतः राक्षससकाशात् भीते: । रक्षःपदस्य हिंस्रमात्रोपलक्षकतया
सर्वविधादपि भयादित्यर्थ: । ररक्ष पालयामास । "रक्ष पालने " इति धातोर्लिट् ।
स्वयमखिलदुष्टनिग्रहपूर्वक भूभारोत्तारणार्थावतीर्णस्तदेव कर्म निरवर्तयदिति भावः ।
 
॥ ८५ ॥
 
अथ कवि : पूर्वप्रपञ्चितोच्चावचमडलोपि साक्षात् भगवत्प्रपञ्चनावसरे-
" पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्" इति स्मृत्या परममङ्गलात्मतया
भगवन्तमनुचिन्तयन् अपरिमेयभगवच्चरितवर्णनासमर्थत्व
परिज्ञानसंपन्ननिर्वेदोऽपि
भगवत्याः श्रुतेरेव तच्चरितोपवर्णनासमर्थत्वे किमु वक्तव्यं अस्मादृशानामित्यसंतोषं
सार्वत्रिकं मन्वानः सन्तुष्यन्विनयमाचष्टे-
वरं नवोढेव पुराणवाणी व्यनक्ति यं वाङ्मनसातिदूरम् ।
परात्परं तं परिमेयवाचो वयं कथं वर्णयितुं प्रगल्भाः ॥ ८६ ॥
 
वरमिति – पुराणी प्राक्तना अकृत्रिमेति यावत् । वाणी वाक् आम्नाय -
मयीत्यर्थः । वाक् च मनश्च वाङ्मनसे "अचतुर " इत्यादिना अजन्तता । तयोः
अतिदूरं अत्यन्तागोचरम् । आगमैरप्यपरिच्छेद्यविभवमित्यर्थः । यं श्रीकृष्णम्,
परब्रह्मस्वरूपमिति भावः । नवोढा लज्जाभयपराधीनतया प्रसिद्धा मुग्धा निजनायक-
नामनिर्देशाद्यसमर्थेति भावः । वरं स्वीयं भर्तारमिव । व्यनक्ति व्यञ्जनया
प्रपञ्चयति । न पुनः स्पष्टमभिधत्ते । विपूर्वात् "अञ्जु व्यक्तिश्लक्ष्णकान्तिगतिषु "
इति धातोः परस्मैपदे लट् । लोके या काचन नवोढा कतमस्ते पतिः कीदृग्गुणः
इत्यनुयुक्ते लज्जातिशयाद्विस्पष्टमभिधातुमक्षमा साकूतविलोकनव्यङ्ग्यवचनादिना
 
f