This page has not been fully proofread.

प्रथमस्सर्गः
 
भावः । अवस्तात् अधोदेशे स्कन्धशाखादीनामिति भावः । विचरति सञ्चरति
सति । यदूद्वहानां यादवश्रेष्ठानाम् । उपदर्शितोद्यानतरुच्छ: यातिरोहिततदुपरितन-
प्रासादसंचरणशीलानां प्रकृष्टयादवानामिति भावः । आतपत्राणि छत्राणि ।
प्रायेण प्रायशः । प्राभवस्य प्रभुत्वस्य चिह्नमात्रं नु द्योतकमेव खलु । प्रासादानां
सूर्यमण्डलातिगामितया उपरि छत्रानुपयोगात् अधोगतरविरश्मीनामुक्तविध-
तरुच्छायातिरोहिततयाध: छत्रधारणस्य चाप्रवृत्या पारिशेष्यात् छत्रधारणं
प्राभवमात्रव्यञ्जकम् ; न पुनरातपत्राणां आतपत्राणादातपत्राणीत्यन्वर्थानीति
भावः । हीनानामधस्सञ्चरणस्यापि संभवात् प्रायेणेति । अत्र सर्वलोकप्रसिद्धतया
छत्राणामातपाद्रक्षणप्राभंवद्योतनयोर्द्वयोरेकतरप्राभवद्योतकत्वमात्रमूरीकृत्यातपात्
परित्राणरूपार्थस्य मात्रपदेनार्थिक प्रतिषेधात् परिसंख्यालङ्कारः ।
वस्तुनः प्राप्तावनेकत्रैकदा इति [यदि] । एकत्र नियमः सा हि परिसंख्या निगद्य-
ते ॥" इति लक्षणात् ॥ ८२ ॥
 
एकस्य
 
मनोज्ञमन्दस्मितचन्द्रिकाभिश्शश्वद्भवद्भिश्शशिकान्तकुम्भैः ।
 
यत्नं विना यत्र विलासवत्यस्सिञ्चन्ति लीलावनवालसालान् ॥८३ ॥
 
मनोज्ञेति – यत्र द्वारवत्याम् । विलासवत्यः तरुण्यः । मदनमदायत्तमन्द-
हासाद्यञ्चिता उद्यानपालिका इति भावः । मनोज्ञानि मञ्जुलानि मन्दस्मितान्येव
चन्द्रिकास्ताभिः । शश्वत् प्रतिपदम् । द्रवद्भिः स्यन्दमानैः । सर्वतः प्रस्यन्दि-
सलिलपूर्णैरिति भावः । शशिकान्तकुम्मैः चन्द्रकान्तमणिमयकलशैः । लीलावनस्य
प्रमदवनस्य बालसालान् बालपादपान् । तरुणानां तरूणां रूढमूलतया प्रतिपद-
सलिलसेकानपेक्षणादिति भावः । "अनोकहः कुटस्साल: " इत्यमरः । यत्नं विना
दूरतः सलिलाहरणादिक्लेशलेशं विनवेत्यर्थः । सिञ्चन्ति आलवालमापूरयन्तीत्यर्थः ।
" षिच सेचने " इति धातोर्लट् । उद्यानपालिकाकरगतानां कलशानां चन्द्रकान्त-
शिलामयतया चन्द्रिकातिशायिकामिनीमन्दस्मितप्रसरणमात्रेण सलिलभरितत्वेन
सलिलान्तरगवेषणासंभवादिति भावः । ततश्च चेटीनामेवेहशत्वे किमु वक्तव्यं
राजमहिषीणा मिति उद्यानसेचकानामेव कलशानामीदृशत्वे किमुत राजोपभोग-
साधनानामिति च नगरस्योत्तमनारीभरितत्वनिरतिशयविभवत्वादिकं व्यज्यते ।
 
मैं