This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
७३
 
निजधनरक्षार्थे गङ्गाम्भसि निलीना वर्तते किमिति भावः । यद्वा यत्समृद्ध्या क
र्त्र्या तथेयमपि विनिर्जितामरावती वसूनां वसुनामकानामष्टानां देवविशे- षाणामन्त: नगर-
मध्ये गोपनं भरणमेव, श्लेषमूला तिशयोक्त्या अन्तः रहसि वसुनो धनस्य गोपनं
प्रच्छादनं विजयिन्यै द्वारवत्या अप्रदानं तेन निमित्तेन वियत्तटिन्यां स्वर्गङ्गायां यः
प्रतिबिम्ब: स्वस्यास्तद्व्याजात् निमज्जितेव, कर्मणि क्तः, बलात्कृत्य सलिलनिमज्जनं
कारितेव निरीक्ष्यत इत्यर्थ: । बलिने दुर्बलेन प्रदेयत्रल्याद्यप्रदानेन यावता न
प्रयच्छति तावन्तं समयं सलिलनिमज्जनेन निश्वासोच्छ्वासप्रतिरोधनेन विहिंसनस्य
प्रसिद्धत्वादिति भावः । अत्र गङ्गोदके अमरावतीप्रतिफलनाध्यवसितं द्वारवतीकारित-
रित
मज्जनं प्रति अमरावतीकृताष्टवसुधारणाध्यवसितधनगोपनस्य हेतुत्व- प्रतीत्या
हेतूत्प्रेक्षा । प्रथमकल्पे तु गोपनस्य फलत्वप्रतीत्या फलोत्प्रेक्षा अपह्नवाति-
शयोक्तिभ्यामुत्थापितेति सङ्करः ॥ ७९ ॥
 
*
 

 
अधो विसर्पन्मणिगोपुराग्रमणिप्रभालीमयशृङ्खलासु ।

व्यालम्बिता या वरणाभिगुप्ता निधिः किलास्ते'[^1 ] निखिलाद्भुतानाम्

 
८०॥
 
अध इति—या द्वारवती । अध: अधोभागे भूतलादिप्रासादाप्रपर्यन्तस्य

कृत्स्नस्य नगरस्य पादस्थान इति भावः । विसर्पन्तीनां प्रसरन्तीनां मणि गोपुरा-
ग्रमणिप्रभाणां मणिमयानां इन्द्रनीलमणिविकाराणां गोपुरा ग्राणां पुरद्वारवर्याणाम् ।
"परार्ध्याग्रप्राग्रसरप्राग्राग्र्याग्रीयमग्रियम्" इत्यमरः । मणिप्रभाणां इन्द्रनीलमणिच्छ-
वीनां या: आल्य: पङ्क्तयः तन्मयासु तदात्मिकासु शृङ्खलासु निगलेषु कालाय-
सीष्विति भावः । व्यालम्बिता निबद्धा । अथ च वरणैः प्राकारै: "प्राकारो
वरणस्सालः" इत्यमरः । अभिगुप्ता रक्षिता । यथा नास्माद्देशादन्यत्रापसर्पति
तथा निरुद्धेत्यर्थः। निखिलानां समस्तानां अद्भुतानामाश्चर्याणाम् । विजातीय-
विभवौन्नत्यादि विविधमहातिशयानामित्यर्थः । निधिः किल शेवधिरिव । आस्ते
वर्तते ।
"आस उपवेशने " इति धातोरात्मनेपदे लट् । अमानुषतया असंभा-
वितानि यानि यान्यद्भुतानीह परिदृश्यन्ते न तादृशान्यन्यत्र काक्वापि दृश्यन्त इति
 
वरणस्साल:
 
3

 
 
[^1 ]
G. कलास्ते,
 
10