This page has been fully proofread once and needs a second look.

७२
 
रुक्मिणीकल्याणे सव्याख्याने
 
पुङ्खानुपुङ्खस्फुरदात्मलक्ष्मीवीक्षाकृतेऽधोमुखतां व्रजन्ती ।

विभ्राजते वृत्रजितः पुरीव '[^ 1]वियद्धुनीवीचिषु 'वि[^2 ]बिम्बिता या ॥७८॥
 
-
 

 
पुंखेति — वियद्भु-वियद्धुन्या व्योमगङ्गाया वीचिषु तरङ्गेषु । बिम्बिता प्रतिफलिता ।

ऊर्ध्ववृतदर्पणप्रतिविबिम्बितमुखादिवदधोमुखवदवभासमानेति भावः । या द्वारवती ।
पुङ्खानुपुङ्खं अविरळं यथा भवति तथा स्फुरन्त्या विलसन्त्या आत्मनः स्वस्या:
द्वारवत्या इत्यर्थः। लक्ष्म्याः शोभायाः वीक्षाकृते दर्शनाय । चक्षुषा साक्षात्कर्तुमिति
भावः । अधोमुखतां अवनतवदनतां ब्व्रजन्ती प्राप्नुवन्ती । वृत्रजितः इन्द्रस्य ।
पुरी अमरावतीव । विभ्राजते विराजते । विपूर्वात् "भ्राजृ दीप्तौ " इति
धातोरात्मनेपदे लट् । बिम्बप्रतिबिम्बयोरिव द्वारवतीदेवनगर्यो रँरैकरूप्यमिति
भावः । अत्र वियद्गङ्गाप्रतिफलितायां द्वारवत्यां तदीया परिमितैश्वर्यावलोकनार्थावन-
तामरावतीतादात्म्यसंभावना स्वरूपोत्प्रेक्षा । यद्वा तथाविधायाः द्वारवत्याः
अवनतवदनामरावतीत्वेनाध्य वसिताया वदनावनमनं प्रत्यफलीभूतस्य द्वारवती-
शोभातिशयनिरीक्षणस्य फलत्वसंभावना फलोत्प्रेक्षा ॥ ७८ ॥
 

द्वारवत्यमरावत्योः बिम्बप्रतिबिम्बभाववर्णनाधिगतममरावत्यां द्वारवती-

साम्यमसहमानः कल्पनान्तरमाह-

 
विनिर्जिता निर्जरराजधानी वियत्तटिन्यां प्रतिबिम्बदम्भात् ।

निरीक्ष्यतेऽन्तर्वसुगोपनेन निमज्जितेवाम्बुनि यत्समृद्ध्या ॥ ७९ ॥
 

 
विनिर्जितेति – यस्याः द्वारवत्याः । समृद्ध्या विस्तारायामवस्वादिपरिपूर्त्या

साधनभूतयेत्यर्थः । विनिर्जिता पराजिता । निर्जरराजधानी अमरावती । वियत्त-
टिन्यां स्वर्गङ्गायाम् । प्रतिबिम्बदंभात् स्वप्रतिफलनमिति कपटात् । अम्बुनि जले।
अन्तः मध्यदेशे वसुनः धनस्य गोपनेन गूहनेन निमित्तेन । अपहारिकायाः
द्वारवत्याः सकाशादभिरक्षणायेत्यर्थः । निमज्जितेव भावे क्त: निमग्नेव निरीक्ष्यते
दृश्यते। निरुपसर्गपूर्वात् " ईक्ष दर्शने " इति धातोः कर्मण्यात्मनेपदे लट् । जनैः
इति शेषः । बलिना केनचित्पराभूतस्य तत्सकाशान्निजनगोपनस्य प्रसिद्धतया
 
"
 

 
 
 
[^
1 ] द्धुनौ.
 

[^
2
 
] बिम्बितायाः