2023-04-06 02:50:51 by ambuda-bot
This page has not been fully proofread.
७२
रुक्मिणीकल्याणे सव्याख्याने
पुङ्खानुपुङ्खस्फुरदात्मलक्ष्मीवीक्षाकृतेऽधोमुखतां व्रजन्ती ।
विभ्राजते वृत्रजितः पुरीव 'वियद्धुनीवीचिषु 'विम्बिता या ॥७८॥
-
पुंखेति — वियद्भुन्या व्योमगङ्गाया वीचिषु तरङ्गेषु । बिम्बिता प्रतिफलिता ।
ऊर्ध्ववृतदर्पणप्रतिविम्बितमुखादिवदधोमुखवदवभासमानेति भावः । या द्वारवती ।
पुङ्खानुपुङ्खं अविरळं यथा भवति तथा स्फुरन्त्या विलसन्त्या आत्मनः स्वस्या:
द्वारवत्या इत्यर्थः। लक्ष्म्याः शोभायाः वीक्षाकृते दर्शनाय । चक्षुषा साक्षात्कर्तुमिति
भावः । अधोमुखतां अवनतवदनतां ब्रजन्ती प्राप्नुवन्ती । वृत्रजितः इन्द्रस्य ।
पुरी अमरावतीव । विभ्राजते विराजते । विपूर्वात् "भ्राज दीप्तौ " इति
धातोरात्मनेपदे लट् । बिम्बप्रतिबिम्बयोरिव द्वारवतीदेवनगर्यो रँकरूप्यमिति
भावः । अत्र वियद्गङ्गाप्रतिफलितायां द्वारवत्यां तदीया परिमितैश्वर्यावलोकनार्थावन-
तामरावतीतादात्म्यसंभावना स्वरूपोत्प्रेक्षा । यद्वा तथाविधायाः द्वारवत्याः
अवनतवदनामरावतीत्वेनाध्यवसिताया वदनावनमनं प्रत्यफलीभूतस्य द्वारवती-
शोभातिशयनिरीक्षणस्य फलत्वसंभावना फलोत्प्रेक्षा ॥ ७८ ॥
द्वारवत्यमरावत्योः बिम्बप्रतिबिम्बभाववर्णनाधिगतममरावत्यां द्वारवती-
साम्यमसहमानः कल्पनान्तरमाह-
विनिर्जिता निर्जरराजधानी वियत्तटिन्यां प्रतिबिम्बदम्भात् ।
निरीक्ष्यतेऽन्तर्वसुगोपनेन निमज्जितेवाम्बुनि यत्समृद्धया ॥ ७९ ॥
विनिर्जितेति – यस्याः द्वारवत्याः । समृद्ध्या विस्तारायामवस्वादिपरिपूर्त्या
साधनभूतयेत्यर्थः । विनिर्जिता पराजिता । निर्जरराजधानी अमरावती । वियत्त-
टिन्यां स्वर्गङ्गायाम् । प्रतिबिम्बदंभात् स्वप्रतिफलनमिति कपटात् । अम्बुनि जले।
अन्तः मध्यदेशे वसुनः धनस्य गोपनेन गूहनेन निमित्तेन । अपहारिकायाः
द्वारवत्याः सकाशादभिरक्षणायेत्यर्थः । निमज्जितेव भावे क्त: निमग्नेव निरीक्ष्यते
दृश्यते। निरुपसर्गपूर्वात् " ईक्ष दर्शने " इति धातोः कर्मण्यात्मनेपदे लट् । जनैः
इति शेषः । बलिना केनचित्पराभूतस्य तत्सकाशान्निजवनगोपनस्य प्रसिद्धतया
"
1 धुनौ.
2
बिम्बितायाः