This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
७१
 
परिखोदकप्रतिबिम्बतया मूलादिशृङ्गान्तं यथावस्थितिप्रातिलोम्येनाधः- शृङ्गतया
भासमाना स्वरसत ऊर्ध्वशृङ्गतातया भासमाना च सौधावलिः प्रपदादिकव्ट्यन्तं
स्वभावाधोमुखतया तथा कव्ट्यादिपादान्तं प्रातिलोम्येनो- र्ध्वमुखतया आयामपरि-
णाहाभ्यामुभयतः सदृशौ हरिचरणाविव विभातीति भावः । अत्र परिखाप्रति-
फलितप्रासादानां बिम्बप्रतिबिम्बयोर्दर्शनेन तत्सदृशोर्ध्वाधोविनियोजित
त्रिविक्रम-
चरणस्मृत्या स्मृतिमानलङ्कारः ॥ ७६ ॥
 

 
पाताळलोके परिखाजले या हर्म्येण हन्त प्रतिविम्विबिम्बितेन ।

पराजितायाः फणिराजधान्या: प्रायेण मौलोलौ पदमादधाति ॥ ७७ ॥
 

 
पाताळेति- या द्वारवती । परिखाजले । प्रतिविबिम्बितेन । हर्म्येण प्रासादेन

निमित्तभूतेन । पाताललोके नागलोके । स्थिताया इति भावः । पराजितायाः

निजसौन्दर्यविनिर्जिताया: । फणिराजधान्या: भोगवतीनाम्न्याः वासुकि- नगर्याः ।
मौलौ शिरसि । पदं चरणम् । प्रायेण भूयसा । आदधाति निधत्ते । आङ्पूर्वाद्द
धातेलेट् । यया कयाचन विद्यया पराजितस्य प्रतिभटस्य शिरसि विजेतुश्चरणन्य-
सनस्य प्रसिद्धत्वादिति भावः । यद्वा पदं स्थानं स्वयमवस्थानं करोतीत्यर्थः । पराजिते
विजेतृसंवहनस्य बाललीलादौ दृष्टचरत्वादिति भावः । अथवा पराभूतस्यैव
नगरात्मतया तदाक्रम्य स्वयं तमधितिष्ठतीत्यर्थः । उताहो पदं चिह्नं ध्वजरूप-
मादधातीत्यर्थः । स्ववशीकृतराष्ट्रनगरादौ विजेतुः पताकारोपणस्य शूरधर्मत्वेन
राजनीतौ दृष्टत्वादिति भावः । आहोस्वित् मौलौ ललाट इति भावः । पदं
श्वपदादिचिह्नं पराभूतत्वप्रख्यापनाय श्वपदाद्याकारेण लिप्यादिरूपेण वा
सूच्यादिना विद्धा पर्णरसेङ्गालादिना मलिनीकरणरूपमङ्कनमित्यर्थः । तस्य
साहसिकदण्डरूपतया लोकशास्त्र प्रसिद्धत्वादिति भावः । प्रासादप्रतिबिम्बस्याति-
दूरावभानक्रियायां तत्पराजयपूर्वकोक्तविवपढाधपदाधानक्रियातादात्म्यसंभावना क्रिया-
स्वरूपो- त्प्रेक्षा । हन्तेति कष्टे । प्रायेणेत्युत्प्रेक्षा द्योतकं पदम् । "पदं व्यवसितत्राण-

स्थानलक्ष्मांत्घ्रिवस्तुषु " इत्यमरः ॥ ७७ ॥