This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 

पाणौ गृहीत्वा परिवादिनीं यत्पौराः स्फुरत्पंचमरागमुद्राम् ।

अहो श्रुतिग्रामपथानुसारप्राप्तप्रकर्षा जगति प्रथन्ते ॥ ७४ ॥
 
६९
 

 
पाणाविति यत्पौरा: द्वारवतीवासिनो जनाः । स्फुरन्ती प्रथम-
परिस्फुरिता पञ्चमी पञ्चमाख्यस्वराभिव्यञ्जिका तन्त्री यासां तादृश्यो रागमुद्राः
रागाभि- व्यञ्जकास्तन्त्र्यः यस्यां तादृशीम् । वीणायां पञ्चममारभ्यैव वादनप्रसिद्धेरिति

भावः । अन्यत्र स्फुरन्ती प्रकाशमाना सर्वविदितेति भावः । पञ्चमे चण्डाले

रागस्य अनुरागस्य मुद्रा लाञ्छनं यस्यां तादृशीम् । तेन पापस्य निरन्तराभ्य स्ततया
अपरिहार्यत्वमभिव्यज्यते । परिवादिनीं सप्ततन्त्रीघटितां वीणाम् । "विपञ्ची सा
तु तन्त्रीभिः सप्तभिः परिवादिनी " इत्यमरः । अन्यत्र परिवादिनीं अभिशस्ताम् ।
लोकगर्हितां नारीमित्यर्थः । "परीवादापवादवत् " इत्यमरः । पाणौ करे । गृहीत्वा
उपगृह्य । धानुष्क इतिवदत्र वीणाग्राहित्वं संगीतविद्याकोविदत्वेन प्रख्यातपरं
वेदितव्यम् । अन्यत्र पाणौ गृहीत्वा परिणीयेत्यर्थः । अभिशस्तापति-
त्वख्यातिमासाद्येति भावः 1 श्रुतिः स्वरावयवीभूता नादाभिव्यक्तिः
ग्रामस्वरसमुदायः । सच षड्जग्रामो मध्यमग्रामः पञ्चमग्रामश्चेति त्रिविधः तेषां
पथ: मार्गस्य अनुसारेण अविरोधेन स्वरवैरूप्यविहीनतयेत्यर्थः । प्राप्तः
लब्धः प्रकर्षः प्रख्यातिरिति यावत् । यैस्तादृशाः । अन्यत्र श्रुतीनां वेदानां
ग्रामस्य समूहस्य य: पन्थाः वेदबोधितविधिनिषेधरूपः तस्यानुसारोऽनुवर्तनं
विहिताचरण- निषिद्वर्जनरूपं तेन प्राप्तः प्रकर्षो यैस्तादृशाः । सच्छीलतयेत्यर्थः
जगति भुवने । प्रथन्ते प्रसिद्धा भवन्ति । अहो अद्भुतम् । चण्डाळाभिगामिन्याः
पत्युः सदाचारपरत्वमद्भुतमिति भावः । अस्य च वैणिकपरत्वे न विरोध इति
विरोधाभासालङ्कारः ॥ ७४ ॥
 

 
अन्तःस्फुरद्भिः परिखासु हर्म्यैरत्युन्नतैरायतसप्तभूमैः ।

चतुर्दशानां जगतामपास्तसीमाविवादेव समेधते या ॥ ७५ ॥
 

 
अन्तरिति-- या द्वारवती । परिखासु खेयेषु । अन्त: जलमध्ये । स्फुरद्भिः

प्रतिबिम्बतया भासमानैः । अथ च अत्युन्नतैः आसत्यलोकमुच्छ्रितैः । तथा आयता: