This page has not been fully proofread.

६८
 
रुक्मिणीकल्याणे सव्याख्याने
 
स्थानं वीणाकोणं विदित्वा तदन्यथानुपपत्त्या विशेषदर्शनसहकृतया वादनसाधनी-
कृतं कोणमेव कलाशेषं चन्द्रं निश्चित्य तत्र वीणाकोणत्वभ्रान्तिकृतायां तदादान-
क्रियायां स्वस्वासमीक्ष्यकारिताया एव निमित्तत्वावगमेन सापत्रपा भवन्तीति
भावः । भ्रान्तिमदलङ्कारः । "भ्रान्तिमानन्यसंवित्तिरन्यस्मिन् समदर्शनात् '
इति लक्षणात् ॥ ७२ ॥
 
सङ्गीतसर्वस्वरहस्य' भङ्गीसारस्यसारानुकृतावदक्षा ।
 
विद्धा 'नखैर्यत्र विलासिनीनां वीणा विरावेण विरोदितीव ॥ ७३ ॥
 

 
सङ्गीतेति – यत्र द्वारवत्याम् । वीणा विपञ्ची । विलासिनीनां नारीणाम् ।
विलासवशात् वीणां वादयन्तीनामिति भावः । सङ्गीतस्य गानविद्याया:
सर्वस्वेषु सर्वाशेषु गानजीवनीभूतेष्विव्यर्थः । रहस्यस्य गूढार्थस्य आपात-
परिचयालभ्यस्य उपदेशमूलकस्य प्रज्ञावन्मात्रलभ्यस्येति भावः । भङ्गया: रीतेः
सारस्यस्य रसास्वादानुगुणचमत्कृतिविशेषस्य अनुकृतौ अनुकरणे विषये ।
विलासिनीभिरसकृदुद्भाव्यमानसारांशानूच्चारणकर्मणीति भावः । अदक्षा असमर्था
सती । तेन वनितागाने वीणानिनादादत्यन्तमधुरत्वं वीणायामप्यनिरूप्यस्वर-
भङ्गीलयलवोपलक्षितत्वं [च] व्यज्यते । अत एव नखैः नखरैः । विद्धा ताडिता ।
अनुकरणानवधानानुगुणशिक्षां प्रापितेवेति भावः । विरावेण विकृतस्वरेण ।
अभेदे तृतीया । विरोदितीव विलपतीव । वीणानिनाद एव तत्कृतं रोदनमित्यर्थः ।
लोके गीतिध्वने: विलापस्य च यावदन्तरं तस्येह विलासिनीगीतिवीणानि-
नादयोः परिदृश्यमानतया गीतास्वादशीलानां वीणानिनाद : प्रलापवदुद्वेजनीयो
भवतीति भावः । "रुदिर् अश्रुविमोचने " इति धातोः परस्मैपदे लट् । अत्रोक्त-
विधतारतम्येन तन्त्रीस्वनाध्यवसितं विकृतारावात्मकवीणाकृतरोदनं प्रति तरुणी-
गानानुकरणासामर्थ्यहेतुकतया नादसंजननानुकूलनखमुखवादनाध्यवसितं विला-
सिनीकृतशिक्षारूपं वेधनमहेतुरेव हेतुतयोपन्यस्तमिति हेतूत्प्रेक्षा । सा च
निरुक्तहेतूत्प्रेक्षानुविद्वेति संकर: । प्रकृतनारीनखवेधनवीणारोदनादिवृत्तान्तेना-
प्रकृतगुरुशिष्यन्यापारप्रतीत्या समासोक्तिरपीति सहृदयैराकलनीयम् ॥ ७३ ॥
 
1 भागी.
 
2
 
नवै: