2023-04-06 02:50:50 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्ग:
शोणाधरा यन्मणिसौधभूमौ वीणागुणास्फालनलब्ध'वर्णा ।
एणाङ्करेखाग्रहणाय यत्नं कोणाशया कोरकितं विधत्ते ॥ ७१ ॥
शोणेति–यस्याः मणिसौधभूमौ रत्नमयप्रासादतले । वीणायाः विपञ्च्याः
गुणानां तन्त्रीणामास्फालने तोलने लग्धवर्णा विचक्षणा। वीणावादनविचक्षणेत्यर्थः ।
"लब्धवर्णो विचक्षणः " इत्यमरः । शोण अधरो यस्यास्तादृशी । काचिद्वनितेत्यर्थः ।
कोण: वीणावादनसाधनकुटिलाग्रस्फाटिकदण्डविशेष इति आशया इच्छया। वीणा-
कोणत्वभ्रान्त्येत्यर्थः। "कोणो वीणादिवादनम्" इत्यमरः । यद्वा कोण इत्याशयोऽ-
भिप्रायो यस्यास्तादृशी सतीत्यन्वयः । एणाङ्कस्य चन्द्रस्य रेखाया: कलामात्रावशिष्ट-
चन्द्रखण्डस्य गतिवशात् सौधतलगतकामिनीकर परिसरमनुसृतस्येति भावः ।
ग्रहणाय आदानाय । यत्नं उद्यमम् । कोरकितं संजातकोरकम् । " तदस्य संजातं
तारकादिभ्य इतच् " इति इतप्रत्ययः । फलोन्मुखमित्यर्थः । विधत्ते करोति ।
कलामात्रशिष्टतया वक्राकारतया धवळतया दन्तिदन्तादिकृतवीण कोणसाम्याच्चन्द्र-
कलायामबाधितकोणत्वभ्रान्त्या तत्संग्रहणोद्यताभूदिति भावः ॥ ७९ ॥
कोकारिरेखामणिकोणयष्टया निकाणयन्त्यो निपुणं विपञ्चीम् ।
सुधार्द्रं तन्त्रीं स्वरविप्लवेन सौधेषु यस्यां सुदृशस्त्रपन्ते ॥ ७२ ॥
1 वर्णाः
६७
कोकेति–– यस्याम् । सौधेषु हर्म्येषु । सुदृश: वनिताः । कोकारेश्चन्द्रस्य
रेखया कल्यैव मणिमय्या हीरकस्फटिकादिकृतया कोणयष्टया वीणावादनदण्डेन ।
विपञ्चीं वीणाम् । निपुणं चतुरतरं यथा तथा । स्वरविकृतौ संपन्नायां वादनाचातुर्य-
कृतत्वबुद्ध्या पुनः पुनः साधुतयेति भावः । निक्काणयन्त्यः वादयन्त्यः सत्यः । सुधया
अमृतेन तन्त्रीसंघृष्टचन्द्रकलोद्गतयेति भावः । आर्द्राणां क्लिन्नानाम् । "आर्द्रे सान्द्र
क्लिन्नम्" इत्यमरः । तन्त्रीणां वीणागुणानां स्वराणां निषादादीनां विप्लवेन व्यत्यासेन
वैकृतेनेत्यर्थः। तन्त्र्यां सलिलक्लिन्नायां स्वरविकृतेरानुभाविकत्वादिति भावः । त्रपन्ते
विलज्जिता भवन्ति । "त्रपूष् लज्जायाम्" इति धातोर्लट् । पुनःपुनः समञ्जसवाद-
नेऽपि सुखरानुत्पत्तिनिमित्तजिज्ञासायां सलिलसेकस्य तन्निदानत्वमवधार्य तदुत्पत्ति-
2
9 तन्त्रिस्वर.