This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
नाय स्वसंपदः परिज्ञातत्वेन इतरसंपन्निरीक्षणेन द्वयोस्तारतम्यपरीक्षार्थमिति भावः ।
प्रसारितां प्रेरिताम् । कटाक्षाणामपाङ्गवीक्षणानां रेखां पङ्क्तिमेव । मन्ये
अवगच्छामि । नयनस्य प्राप्यकारितया तस्यादृश्यत्वेऽपि तज्जनितस्य खण्डचक्षुः-
प्रसरस्य तप्ततैलान्तर्गतादृश्यदहनोत्थितज्वालाया इव न हि दृश्यत्वविरोध इति
भावः । अत्र सौधतोरणमालासु परस्परभाग्यपरीक्षार्थक भवनेन्दिराकटाक्षमाला-
तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६९ ॥
 
'

 
[^1]
प्रायो वलारे: परिपन्थिवर्गे [^2]पराजिते यत्र ' [^3]नृपप्रतापैः ।

चकार वेधा हरिचाप [^4]वल्लीं चञ्चन्मणीतोरणदाम सौधे ॥ ७० ॥
 

 
प्राय इति – वलारे: इन्द्रस्य । परिपन्थिवर्गे वैरिबृन्दे । नृपप्रतापै: द्वारका-

निवासिभूपतेजोभि: । पराजिते परिभूते सति । इन्द्रस्य योद्व्याभावेन तदर्थनिर्मित
चापस्य नैष्फल्यसंभावनायां सत्यामिति भावः । वेधाः स्वनिर्मित चापसाफल्य-
संपादनेच्छुरिति भावः । हरिचापवर्ल्ली इन्द्रधनुर्लताम् । यत्र द्वारवल्। यत्र द्वारवत्याम् । सौधे
प्रासादे । चञ्चन्मणीमयं तरळरत्नपरिकलितं तोरणदाम नगरबहिर्द्वारवैजयन्तीमाला-
रूपाम् । प्राय: प्रायेण । चक्रे विदधे । तत्साफल्याय तोरणाग्रे न्यस्तवान् किमिति
भावः । अत्र द्वारवतीतोरण- मालायां रेखाकारस्वसजातीयनानावर्णविभ्राजित-
तया तथाविधेन्द्रचापगत धर्मसम्बन्धनिमित्तेन द्वारवतीनृपतेजःपराभूतवैरिकतया
निष्फलत्वज्ञान वत्वेनाध्यवसितब्रह्मणा सफलत्वप्रापणेच्छया द्वारवतीगोपुराग्रविन्यस्तेन्द्र-
विन्यस्तेन्द्र
चापतादात्म्यसंभावना वस्तुस्वरूपोत्प्रेक्षा । यद्वा इन्द्रचापत्वेनाध्यव-

सिता या यास्तोरणमालाया: ब्रह्मकृतत्वेनाध्यवसितां सौधाग्रविन्यसनक्रियां प्रति

द्वारवतीगतनृपकृतासुर पर पराजयस्य महेन्द्रधनुषो नैष्फल्यबुद्ध्युत्पादनद्वारा हेतुत्वस्य
सतिसप्तम्या प्रतीयमानतया हेतूत्प्रेक्षा । यद्वा नानाविधरत्न- करणकशिल्पिकर्तृक-
गोपुरतोरणविन्यसनक्रियायां निरुक्तब्रह्मकर्तृकेन्द्र धनुर्विन्यसनक्रियातादात्म्यसंभा
वना क्रियास्वरूपोत्प्रेक्षा ॥ ७० ॥
 

 
[^1]
प्रायोऽचलारे:
 
नृपः
 
3
 

[^
2] पलायिते.

[^3] नृपः
[^
4] वल्लीचञ्चत्.