2023-04-10 06:45:35 by jayusudindra
This page has been fully proofread once and needs a second look.
६५
प्रत्युप्तमुक्ताफलकैतवेन प्रस्वेदिनी भास्करसन्निधानात् ।
प्रासादपङ्क्तिः प्रचलत्पताकाव्याजादुदञ्चद्व्यजनेव यस्याम् ॥ ६८ ॥
-
प्रत्युप्तेति – यस्यां द्वारवत्याम् । प्रासादपङ्क्तिः हर्म्यावलिः । भास्करसन्नि-
धानात् सूर्यसान्निध्यान्निमित्तात् । प्रत्युप्तानि निचितानि मुक्ताफलानि फलाकार
मन्ये मणी[^1] तोरणमालिकां यत्प्रासादलोलां भवनेन्दिराभिः ।
परस्परं भाग्यविलोकनाय प्रसारितामेव कटाक्षरेखाम् ॥ ६९ ॥
-
मन्य इति – यस्याः द्वारवत्याः प्रासादेषु हर्म्येषु लोलां विचलन्तीम् ।
प्रति
निबद्धां पवनगतिवशात् विचलन्तीमिति भावः । मणीतोरणमालिकां इन्द्रनील
।
[^1
वन्दन,
9