This page has been fully proofread once and needs a second look.

उपपदेकषधातोः खश्प्रत्यये "अरुर्द्विषदजन्तस्य मुम्" इति अजन्तत्वान्मु- मागमः। यदीयं द्वारवतीसम्बन्धिनम् । प्रासादं हर्म्ये विषयम् । वियद्भुनौ व्योमगंगायाम् । द्वारवतीप्रासादशृङ्गमभितः प्रसृतायामिति भावः । विहारं सलिलक्रीडां भजन्तीति तादृशीनाम् । विबुधाङ्गनानां सुरसुन्दरीणाम् । विश्रान्तिहेतोः श्रमापनयनार्थम् । "विभाषा गुणे स्त्रियाम् " इति हेत्वर्थे पञ्चमी । प्रणीतं कृतम् । विश्वकर्मणा विनिर्मितमिति भावः । अम्भोभवनं सलिलगृहम् । जलमध्यस्थविहारसदनमित्यर्थः । ऊहे संभावयामि । अहमिति शेषः । स्वर्गङ्गासलिलक्रीडापराणां सुरसुदृशां तत्रैव विश्रमस्या- सकृदनुभूयमानतया अक्षतनिर्माणचातुर्या अमानुषत्वनिश्चयेन च द्वारवती संसक्ततया तदीयत्वेन प्रतीयमानमपि विबुधाङ्गनाविश्रमार्थं विश्वकर्मणा
मनसा निर्मितसलिलविहारसदनमवगच्छामीति भावः । अत्र द्वारवतीहर्म्य- शिखरे सुरवनिताजलगृहतादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६४ ॥
 
मन्दाकिनीकल्पितमज्जनाभिः पुरन्दरान्तःपुरसुन्दरीभिः ।
वाताय बद्धानि यदीयसौधे वासांसि मन्ये विचलाः पताकाः ॥६५॥
 
मन्दाकिनीति – यदीयसौधे द्वारवतीप्रासादे । विचलत्पताका: प्रविचलन्ती: वैजयन्ती: । "पताका वैजयन्ती " इत्यमरः । मन्दाकिनीकल्पितमज्जनाभिः
स्वर्गङ्गाविरचितस्नानकर्मभिः । पुरन्दरान्तःपुरसुन्दरीभिः पुरुहूतावरोघव- घूभिः । वाताय पवनाय । स्नानार्द्रवसनशुष्कीकरणार्थवातविघूननायेति भावः । निबध्य प्रसारितानीत्यर्थः । ध्वजापदेशसौधाग्रविच्छुरितदण्डेष्विति भावः । वासांसि महेन्द्रवघूघारणार्हदिव्यवसनानि । मन्ये संभावयामि । अत्र ध्वजपटेषु वातविधूननार्थं निबद्धदिव्ययोषिद्वासस्तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६५ ॥
 
[^1]वलद्विषद्वारणदानपङ्कनीलीविलिप्ता [^2]नियतं पताकाः ।
सौधेषु यस्यां सुरसिन्धुपूरे विशोध्य [^3]वातो विशदीकरोति ॥ ६६ ॥
 
वलद्विषदिति – यस्यां द्वारवत्याम् । वातः पवन: । इन्द्रोपजीविभृत्यरूप
इति भावः। वलद्विषत: इन्द्रस्य वारणस्य ऐरावतस्य दानपङ्कस्य मदकर्दमस्य
 
[^1] चल.
[^2] नियता:
[^3] पाको