This page has not been fully proofread.

प्रथमस्सर्ग:
 
उपपदेकषधातोः खश्प्रत्यये "अरुर्द्विषदजन्तस्य मुम्" इति अजन्तत्वान्मुमागमः।
यदीयं द्वारवतीसम्बन्धिनम् । प्रासादं हर्म्ये विषयम् । वियद्भुनौ व्योमगंगायाम् ।
द्वारवतीप्रासादशृङ्गमभितः प्रसृतायामिति भावः । विहारं सलिलक्रीडां भजन्तीति
तादृशीनाम् । विबुधाङ्गनानां सुरसुन्दरीणाम् । विश्रान्तिहेतोः श्रमापनयनार्थम् ।
"विभाषा गुणे स्त्रियाम् " इति हेत्वर्थे पञ्चमी । प्रणीतं कृतम् । विश्वकर्मणा
विनिर्मितमिति भावः । अम्भोभवनं सलिलगृहम् । जलमध्यस्थविहारसदनमित्यर्थः ।
ऊहे संभावयामि । अहमिति शेषः । स्वर्गङ्गासलिलक्रीडापराणां सुरसुदृशां
तत्रैव विश्रमस्यासकृदनुभूयमानतया अक्षतनिर्माणचातुर्या अमानुषत्वनिश्चयेन च
द्वारवतीसंसक्ततया तदीयत्वेन प्रतीयमानमपि विबुधाङ्गनाविश्रमार्थे विश्वकर्मणा
मनसा निर्मितसलिलविहारसदनमवगच्छामीति भावः । अत्र द्वारवतीहर्म्य शिखरे
सुरवनिताजलगृह तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६४ ॥
 
मन्दाकिनीकल्पितमज्जनाभिः पुरन्दरान्तःपुरसुन्दरीभिः ।
वाताय बद्धानि यदीयसौधे वासांसि मन्ये विचलाः पताकाः ॥६५॥
 

 
मन्दाकिनीति – यदीयसौधे द्वारवतीप्रासादे । विचलत्पताका: प्रविचल-
न्ती: वैजयन्ती: । "पताका वैजयन्ती " इत्यमरः । मन्दाकिनीकल्पितमज्जनाभिः
स्वर्गङ्गाविरचितस्नानकर्मभिः । पुरन्दरान्तःपुरसुन्दरीभिः पुरुहूतावरोधवधूभिः ।
वाताय पवनाय । स्नानाद्रवसनशुष्की करणार्थवातविधूननायेति भावः । निबध्य
प्रसारितानीत्यर्थः । ध्वजा पदेशसौधाग्रविच्छुरितदण्डेष्विति भावः । वासांसि
महेन्द्रवधूधारणार्हदिव्यवसनानि । मन्ये संभावयामि । अत्र ध्वजपटेषु वातविधून-
नार्थ निबद्रदिव्ययोषिद्वासस्तादात्म्यसंभावना स्वरूपोत्प्रेक्षा ॥ ६५ ॥
 
'वलद्विषद्वारणढानपङ्कनीलीविलिप्ता नियतं पताकाः ।
सौधेषु यस्यां सुरसिन्धुपूरे विशोध्य वातो विशदीकरोति ॥ ६६ ॥
वलद्विषदिति – यस्यां द्वारवत्याम् । वातः पवन: । इन्द्रोपजीविभृत्यरूप
इति भावः। वलद्विषत: इन्द्रस्य वारणस्य ऐरावतस्य दानपङ्कस्य मदकर्दमस्य
2 नियता:.
3 पाको,
 
1
 
चल.