This page has been fully proofread once and needs a second look.

स्य कवाटपिधानस्य सूर्योदयावधिकतया तारकाप्रतिरोधे तदनुसृतगतेः सूर्यस्यापि निरोघने रात्रिविराम एव न स्यादित्याशयः । तमिस्रा: रात्रयः महल्यः । तत्तद्दिवसेभ्यो मुहूर्ताधिका: । अभवन् संजाताः । इतीति शेषः । मन्ये संभावयामि । अतएव यावद्यावद्धिमशैलसामीप्येन शीताधिक्यं तावत्ता वद्रात्रिदैर्घ्यमित्यत्रेदमेव निमित्तमित्याशय:। अत्र निमित्तान्तरकृतरात्रिदैर्घ्यं प्रति उक्तविधया तारकप्रतिरोधस्य हेतुत्ववर्णनाद्धेतूत्प्रेक्षा ॥ ६२ ॥
 
ध्वजाग्रभिन्नद्रुहिणाण्डभाण्डनिष्यन्दमानाम्बुनिरन्तरेषु ।
सौधेषु धारागृहसौख्यदेषु जानाति यस्यां जनता न घर्मम् ॥ ६३ ॥
 
ध्वजेति—यस्यां द्वारवत्याम् । जनता जनसमूह: । "तस्य समूह: " इत्यधि-
कारे "ग्रामजनबन्धुभ्यस्तल् " इति तल्, "तलन्तं स्त्रियाम्" इति स्त्रीत्वम् । ध्वजानां केतुदण्डानां अग्रैः कोटिभागैः भिन्नात् छिद्रितात् ब्रह्माण्डभाण्डात् तद्गतछिद्रमार्गादिति भावः। निष्यन्दमानैः निरन्तरं प्रस्रवद्भिः न पुनर्गङ्गा प्रवाहवत् प्रवहद्भिः तथा सत्यावासानर्हतापातात् अम्बुभिः सलिलै : निरन्तरेषु सर्वतो व्याप्तेषु । सौधेषु हर्म्येषु । धारागृहवत् सलिलयन्त्रोपेत सदनेष्विव "तत्र तस्येव" इति वतिः। अध:प्रसृतातिवेगवत्प्रवाहाभिमुखवि- निवेशितोन्मुखप्रणाळीसमुत्पतितसलिलसंसिक्तशालावदिति भावः । सौख्यं सुखं सन्तापोपशमनरूपं ददति वितरन्तीति तादृशेषु सत्सु । धर्मं ग्रीष्म- तापम् । न जानाति नानुभुङ्क्ते । सौधानां सन्ततसलिलसिक्ततया ताप- प्रसक्तेरेवाभावे तत्रत्याः सर्वे ग्रीष्मो नाम कोऽपि तापनः काल इत्यमुमेवार्थं
न जानन्तीति भावः । अत्र पौरजनवृत्तितयाध्यवसितं ग्रीष्मतापापरिज्ञानं प्रति उक्तविधया धारासदनसदृशसौधनित्यनिवासस्य हेतुत्वप्रतीत्या हेतूत्प्रेक्षा गूढा धारागृहवदित्युपमया संसृष्टिः ॥ ६३ ॥

वियद्धुनौ यत्र विहारभाजां विश्रान्तिहेतोर्विबुधाङ्गनानाम् ।
प्रणीतमम्भोभवनं यदीयं प्रासादमभ्रंकषशृङ्गमहे ॥ ६४ ॥

वियदिति – यत्र द्वारवत्याम् । अभ्रं गगनं कषतीत्यभ्रंकषं व्योमान्तर्व्या-
पीत्यर्थः । शृङ्गं शिखरं यस्य तादृशम् । "सर्वकूलाभ्रकरीरेषु कषः" इति अभ्रशब्दे