This page has been fully proofread once and needs a second look.

19
 
६२
 
रुक्मिणीकल्याणे सव्याख्याने
 
स्य कवाटपिधानस्य सूर्योदयावधिकतया तारकाप्रतिरोधे तदनुसृतगतेः सूर्यस्यापि
निरोने रात्रिविराम एव न स्यादित्याशयः । तमिस्रा: रात्रयः महल्यः । तत्तद्दिवसेभ्यो
मुहूर्ताधिका: । अभवन् संजाताः । इतीति शेषः । मन्ये संभावयामि । अतएव
यावद्यावद्धिमशैलसामीप्येन शीताधिक्यं तावत्तावद्वात्रिं वद्रात्रिदैर्घ्यमित्यत्रेदमेव निमित्त-
मित्याशय:। अत्र निमित्तान्तरकृतरात्रिदैर्ध्यघ्यं प्रति उक्तविधया तारकप्रतिरोधस्य
हेतुत्ववर्णनाद्धेतूत्प्रेक्षा ॥ ६२ ॥
 

ध्वजाग्रभिन्नद्रुहिणाण्डभाण्डनिष्यन्दमानाम्बुनिरन्तरेषु ।
 
सौं

सौ
धेषु धारागृहसौख्यदेषु जानाति यस्यां जनता न र्मम् ॥ ६३ ॥
 

ध्वजेति—–—यस्यां द्वारवत्याम् । जनता जनसमूह: । "तस्य समूह: " इत्यधि-
"
 
6
 

कारे "ग्रामजनबन्धुभ्यस्तल् " इति तल्, "तलन्तं स्त्रियाम्" इति स्त्रीत्वम् । ध्व-
जानां केतुदण्डानां अप्ग्रैः कोटिभागैः भिन्नात् छिद्रितात् ब्रह्माण्डभाण्डात् तद्गतछिद्र-
मार्गादिति भावः। निष्यन्दमानैः निरन्तरं प्रस्रवद्भिः न पुनर्गङ्गा प्रवाहवत् प्रवहद्भिः
तथा सत्यावासार्हतापातात् अम्बुभिः सलिलै : निरन्तरेषु सर्वतो व्याप्तेषु । सौधेषु
हर्म्येषु । धारागृहवत् सलिलयन्त्रोपेत सदनेष्विव "तत्र तस्येव" इति वतिः। अध:-
प्रसृतातिवेगवत्प्रवाहाभिमुख वि- निवेशितोन्मुखप्रणाळीसमुत्पतितसलिलसंसिक्तशा-
लावदिति भावः । सौख्यं सुखं सन्तापोपशमनरूपं ददति वितरन्तीति तादृशेषु
सत्सु । धर्मं ग्रीष्म- तापम् । न जानाति नानुभुङ्क्ते । सौधानां सन्ततसलिलसिक्ततया ताप-
तया ताप
प्रसक्तेरेवाभावे तत्रत्याः सर्वे ग्रीष्मो नाम कोऽपि तापनः काल इत्यमुमेवार्
थं
न जानन्तीति भावः । अत्र पौरजनवृत्तितयाध्यवसितं ग्रीष्मतापापरिज्ञानं प्रति
उक्तविधया धारासदनसदृश सौध नित्यनिवासस्य हेतुत्वप्रतीत्या हेतूत्प्रेक्षा गूढा
धारागृहवदित्युपमया संसृष्टिः ॥ ६३ ॥
 

वियद्धुनौ यत्र विहारभाजां विश्रान्तिहेतोर्विबुधाङ्गनानाम् ।

प्रणीतमम्भोभवनं यदीयं प्रासादमभ्रंकषशृङ्गमहे ॥ ६४ ॥
 
-
 
1
 

वियदिति – यत्र द्वारवत्याम् । अभ्रं गगनं कषतीत्यभ्रंकषं व्योमान्तर्व्या-

पीत्यर्थः । शृङ्गं शिखरं यस्य तादृशम् । "सर्वकूलाभ्रकरीरेषु कषः" इति अभ्रशब्दे