2023-04-09 14:27:57 by jayusudindra
This page has been fully proofread once and needs a second look.
लाञ्छनं प्रति सुदतीमुखशोभाध्यवसितसंपदपहारकृतध्वजरूपशूला- रोपणस्य कविकल्पितस्याहेतोः हेतुत्वप्रतीत्या हेतूत्प्रेक्षा । सा चातिशयोक्ति रूपकानुविद्धेति संकरः ॥ ६० ॥
रयानुधावद्रविवाजिवल्गत्खुराग्रशीर्यत्कुरुविन्दशङ्काम् ।
पुष्णन्ति [^1]तद्गोपुरशृङ्गभूमौ पूषोपलेभ्यः स्फुरिताः स्फुलिङ्गाः ॥ ६१॥
रयेति–तस्यां द्वारवत्याम् । गोपुरद्वाराणां प्रासादानामिति भावः । शृङ्गभूमौ
शिखरप्रदेशे । पूषोपलेभ्य: सूर्यकान्तमणिभ्य: प्रासादाग्रसंघटितेभ्य इति भावः । स्फुरिता: उद्गताः । स्फुलिङ्गा: अग्निकणा: । रविकिरणसंपर्का-
न्निर्गताः इति भावः । रयेण जवेन "रंहस्तरसी तु रयः स्यदः" इत्यमरः । अनुधावतां प्रधावतां रविवाजिनां सूर्याश्वानां वल्गद्भिः घटमानैः खुराग्रैः शफकोटिभिः शीर्यन्त: विशीर्यमाणा: कुरुविन्दाः प्रभाधिकाः पद्मराग विशेषा इति शंकां संभावनाम् । पुष्णन्ति अभिवर्धयन्ति । "पुष पुष्टौ" इति धातोर्लट् । गोपुराणामत्युच्छ्रितत्वेन तत्र सूर्याश्वखुरकुट्टनस्य तथा प्रासादानां महार्घमणिनिर्मितत्वेन तथाविधरत्नखण्डनस्य च तादृश्या भावनायाः संभावितत्वादिति भावः । उत्प्रेक्षोदात्तयोः संसृष्टि: ॥६१ ॥
शीताळुभिर्यत्र शिरोगृहेषु गाढं कुमारैर्घटि[^2]तार्गळेषु ।
तारासु रुद्धासु चिरं तमिस्रा मन्ये [^3]हिमर्तावभवन्महत्यः ॥ ६२ ॥
शीताळुभिरिति – यत्र द्वारवत्याम् । हिमतौं हेमन्ते । शीताळुभिः शीतम-
सहमानैः। "शीतोष्णाभ्यां तदसहने " इत्याळुच्प्रत्ययः । कुमारै: बालैः । नक्षत्रमार्गातिगामिसौधतलशायिभिरिति भावः । शिरोगृहेषु चन्द्रशालासु । सौधवातायनकवाटेष्विति भावः । गाढं अशिथिलं यथातथा । घटिता योजिता अर्गळा: कवाटविष्कम्भा येषु तादृशेषु सत्सु । अविरळदक्षिणोत्तर श्रेणीरूपतया ऊर्ध्वाधः- पार्श्वेषु मार्गान्तररहितेष्विति भावः । अतएव तारासु उडुषु । चिरं घटिकाद्वयादिकालम् । रुद्धासु प्रतिहतगमनासु । पिहितवातायनोद्धाटनावसरप्रतीक्षणेन विळम्बितास्विति भावः । न पुनः सर्वथा निरुद्धास्विति तथासति शीतभीति [कृत]
[^1] A . यत् .
[^2] ताररेषु-तारतेषु.
[^3] भि.