This page has been fully proofread once and needs a second look.

विधप्रासादपर्यङ्कशायिन्य इति भावः । शशाङ्के चन्द्रे । गतिवशात् स्वपर्यङ्कमागत इति भावः । गण्डोपघानभ्रमतः कपोलविन्यसनार्हवृत्ताकारो पबर्हणभ्रान्त्येत्यर्थः । कपोलौ गण्डस्थले । तन्वन्ति विन्यसन्ति इत्यूह्यत इति भावः । कुत एतदिति चेदत्राह । तत् तस्मात् । कपोलविन्यासादेव हेतोः । अत्र चन्द्रे कस्तूरिकयामृगमदद्रवेण रचितं चित्रकं विशेषकं मकरिकादि पत्ररेखेति यावत् अङ्कः लाञ्छनमिति दम्भात् कपटात् । लग्नं सम्बद्धम् । अद्यापि दृश्यत इति भावः । कथमन्यथा अत्युच्छ्रिते चन्द्रमण्डले मालिन्य प्रसक्तिरिति भावः । अत्र चन्द्रगतमङ्कमपहूनुत्य तदारोपितेन कस्तूरिका- चित्रकरूपकार्येण तत्करणीभूतस्य चन्द्रमार्गगतसौधतलशयितकामिनी- कृतस्य चन्द्रे गण्डोपधानत्वभ्रान्तिकृतस्य कस्तूरीमकरिकाङ्कितस्वकीय- कपोलविन्यसनरूपकारणस्यानुमानादनुमानालंकारः । स च कार्य-
कोटावपहूनुत्या कारणकोटौ भ्रान्तिमता चानुप्राणित इति संकरः ॥ ५९ ॥

सौधेषु यस्यां [^1 ]सुदतीमुखश्रीचौर्यादवाप्तध्वजशूलपातः ।
विधुस्सुधावैभववीतबाधः [^2]किणं विभर्ति व्रणजं किमङ्कम् ॥ ६० ॥

सौधेष्विति – यस्यां द्वारवत्याम् । विधुश्चन्द्रः । सौधेषु हर्म्येषु । स्वीयमार्ग-
वर्तितया प्रतिदिवसपरिशीलितेष्विति भावः । सुदतीनां वनितानाम् । "वयसि दन्तस्य दतृ " इति दत्रादेशः । "उगितश्च " इति ङीप् । मुखश्रियः वदनशोभायाः संपदश्च । चौर्यात् अपहारात् निमित्तात् । अवाप्तः प्राप्तः स्वापराधनुगुणदण्डरूपतया प्रतिपन्न इत्यर्थः । ध्वजः केतुदण्ड एव शूलं महासाहसिकं वधार्हं वध्यस्य पादादिमूर्धान्तान्तःप्रवेशानुगुणतीक्ष्णाग्रायस- दण्डविशेष: तस्मिन् पात: आरोपणं येन तादृशः तथाभूतोऽपि सन्निति भावः। सुधायाः स्वकीयामृतस्य वैभवेन महिम्ना मृतसंजीवनशक्ति- विशेषेणेति भावः । वीता अपगता बाधा शूलारोपणजनिता पीडा यस्य तादृशश्च सन् । कथमन्यथा शूलारोपितस्य पुनरुज्जीवनमिति भावः । व्रणजं शूलखातव्रणसंजातम् । किणं व्रणविरोपणकठिनमेचकचर्मविशेषम् ।
अङ्कं चिह्नं शूलारोपणसूचकमित्यर्थः । विभर्ति किं धत्ते किमु । "डुभृञ् धारणपोषणयोः" इति धातोर्लट् । अत्र चन्द्रमण्डलगतं व्रणकिणाङ्कतया- ध्यवसितं
 
 
[^1 ]A. G. सुमुखी.
[^2] G. कणं.