This page has not been fully proofread.

रुक्मिणीकल्याणे सव्याख्याने
 
विधप्रासादपर्यङ्कशायिन्य इति भावः । शशाङ्के चन्द्रे । गतिवशात् स्वपर्यङ्कमागत
इति भावः । गण्डोपघानभ्रमतः कपोलविन्यसनार्हवृत्ताकारोपबर्हणभ्रान्त्येत्यर्थः ।
कपोलौ गण्डस्थले । तन्वन्ति विन्यसन्ति इत्यूह्यत इति भावः । कुत एतदिति
चेदत्राह । तत् तस्मात् । कपोलविन्यासादेव हेतोः । अत्र चन्द्रे कस्तूरिकया
मृगमदद्रवेण रचितं चित्रकं विशेषकं मकरिकादिपत्ररेखेति यावत् अङ्कः लाञ्छन-
मिति दम्भात् कपटात् । लग्नं सम्बद्रम् । अद्यापि दृश्यत इति भावः । कथमन्यथा
अत्युच्छ्रिते चन्द्रमण्डले मालिन्यप्रसक्तिरिति भावः । अत्र चन्द्रगतमङ्कमपनुत्य
तदारोपितेन कस्तूरिकाचित्रकरूपकार्येण तत्करणीभूतस्य चन्द्रमार्गगतसौध-
तलशयितकामिनीकृतस्य चन्द्रे गण्डोपधानत्वभ्रान्तिकृतस्य कस्तूरीमकरि-
काङ्कितस्वकीयकपोलविन्यसनरूपकारणस्यानुमानादनुमानालंकारः । स च कार्य-
कोटावपहनुत्या कारणकोटौ भ्रान्तिमता चानुप्राणित इति संकरः ॥ ५९ ॥
सौधेषु यस्यां 'सुदतीमुखश्रीचौर्यादवाप्तध्वजशूलपातः ।
विधुस्सुधावैभववीतवाधः 2किणं विभर्ति व्रणजं किमङ्कम् ॥ ६० ॥
 
६०
 
सौधेष्विति – यस्यां द्वारवत्याम् । विधुश्चन्द्रः । सौधेषु हर्म्येषु । स्वीयमार्ग-
वर्तितया प्रतिदिवसपरिशीलितेष्विति भावः । सुदतीनां वनितानाम् । "वयसि
दन्तस्य दतृ " इति दत्रादेशः । "उगितश्च " इति ङीप् । मुखश्रियः वदनशोभायाः
संपदश्च । चौर्यात् अपहारात् निमित्तात् । अवाप्तः प्राप्तः स्वापरावानुगुणदण्डरूप-
तया प्रतिपन्न इत्यर्थः । ध्वजः केतुदण्ड एव शूलं महासाहसिकं वधार्ह वध्यस्य
पादादिमूर्धान्तान्तःप्रवेशानुगुणतीक्ष्णाग्रायसदण्डविशेष: तस्मिन् पात: आरोपणं
येन तादृशः तथाभूतोऽपि सन्निति भावः । सुधायाः स्वकीयामृतस्य वैभवेन
महिम्ना मृतसंजीवनशक्तिविशेषेणेति भावः । वीता अपगता बाधा शूलारोपण-
जनिता पीडा यस्य तादृशश्च सन् । कथमन्यथा शूलारोपितस्य पुनरुज्जीवनमिति
भावः । व्रणजं शूलखातव्रणसंजातम् । किणं व्रणविरोपण कठिनमे चकचर्मविशेषम् ।
अङ्क चिह्नं शूलारोपणसूचकमित्यर्थः । विभर्ति किं धत्ते किमु । "डुभृञ् धारण-
पोषणयोः" इति धातोर्लट् । अत्र चन्द्रमण्डलगतं व्रणकिणाङ्कतयाध्यवसितं
1 Ai., G. सुमुखी.
2 G. कणं.