This page has been fully proofread once and needs a second look.

श्रीमरसायणाचार्यविरचितमाव्यसमेता- [४ चतुर्थकाण्डे -
 
( चित्यभिहोमोक्तिः )
नमो रोहितायेति । रोहितो छोहितवर्णः । स्थपतिः प्रभुः । वस्मै रुवाय
नमोऽस्तु । वृक्षाणां यः पाठकस्तस्यै नमोऽस्तु । अथ दशमं यजुराह-
१९८०
 
-
 
नमो मन्त्रिण इति । राजसमार्या मन्त्रालोचनकुशलो मन्त्री । सय
बणिजां स्वामित्वन वाणिजस्तस्मै नमोऽस्तु । बनगता गुल्मादयः कक्षास्तेषां
पालकाप नमोऽस्तु । अथैकादश यजुराह-
नमो भुवंतय इति । भुवं तनोतीति भुवंतिः । परिवो धनं तस्य कर्ता
बरिषस्कृत्स एव वारिबस्कृतस्तस्मै नमोऽस्तु । ओषधीनां ग्राम्पारण्यानां पाल-
कस्तस्मै नमोऽस्तु । अथ द्वादशं यजुराह-
नम उच्चैर्घोषायोति । युद्धकाल उच्छ्रितो घोषो ध्वनियस्यासावुच्चैर्षो-
पस्तस्मै । आक्रन्दयन्वौरिणी रोदयिता तस्मै रुद्राय नमोऽस्तु । पत्तीनां पाद-
चारिणो योधाः पत्तिशब्दबाण्यास्तेषां पालकाय नमोऽस्तु । अथ त्रयोदशं यजुराह-
नमः कृत्स्त्रबीतायेति । कत्नं सैन्यं वीतं वेष्टितं येनासौ करस्लवी-
तस्तस्मै । धावसे पलायमानानां परकीय सैन्यानां पृष्ठतो गच्छन्धावंस्तस्मै नमोऽस्तु ।
सरवानः सास्विकाः शरणागताशेषां पालकाय नमोऽस्तु ॥
 
इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयसंहितामाध्ये चतुर्थकाण्डे पश्चममपाठ के
द्वितीयोऽनुवाकः ॥ २ ॥
 
( अथ चतुर्थाष्टके पष्चमप्रमाठके तृतीयोऽनुवाकः ) ।
नमः सहमानाय निव्याधिन आव्याधि-
मना॑ पत॑ये॒ नमो॑मो॒ नमः॑ः ककुभाय॑ निषङ्गिणे
स्तेनानां॒ पत॑ये॒ नमो नमो निषङ्गिण इषुधि-
मते तस्कराणां पतये नमो नमो बञ्चते परि-
वच॑ते स्तानां पत॑ये॒ नमः॑मो॒ नमो॑ निच॒रखें
परिचरायार॑ण्यानां पत॑ये॒ नमो नमः॑ः सक-
विभ्यो॒ जिवा॑ा सद्भ्यो मुष्णतां पत॑ये॒ नमः॑मो॒
नमो॑ऽसिमद्भ्यो॒ मधु॑ चर॑भ्यः प्रच॒न्तानां॒ पत॑ये॒
 
-.