This page has not been fully proofread.

कृष्ण यजुर्वेदीय तैत्तिरीयसंहिता ।
 
१९७५
 
पपी०५अनु० १]
(चित्यग्निहोमोक्तिः )
 
बाणाय नमोऽस्तु । तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु । उतापि च
ते बाहुभ्यां त्वदीयाभ्यां धनुर्वाणोताभ्यां हस्ताभ्यां नमोऽस्तु । एतत्सर्वे <flag>बै</flag>रि-
ष्वेव प्रवर्ततां न तु म<flag>र्या</flag>त्यभिप्राय: । द्वितीयामृचमाह-
या त इषुरिति । हे रुद्र ते वदीया येयमिषुः शिवतमा शान्ततमा बभूष,
तथा ते स्वदीयं यद्धनुः शिवं शान्तं बभूव, तथा या च तव शरव्या तवेषुधि-
स्तया शान्तयेष्वा तेन च शान्तेन धनुषा तथा व शान्तया शरव्यया नोड-
 
स्मान्मृदय संखय । भक्तेषु प्रवृत्यभावात्तेषां शान्तत्वम् । अथ तृतीयामृचमाह-
या ते रुद्रेति । द्वे हि रुद्रस्य तनू । तथा चोपरिष्टादाम्नायते - रुड़ो
वा एव पदमिस्तस्यैते तनुवौ घोराऽन्या शिवाऽन्या " इति । हिंसिका बोरा
नुमाहिका शिवा । हे रु ते तव या तनूः शिवाऽस्मास्वनुग्रहकारिण्यत एवा-
घोरा हिंसिका न भवति । अघोरत्वमेव स्पष्टी क्रियते -- अपापकाशिनी पापं
हिंसा रूपमनिष्टं काशयतीति पापकाशिनी, तादृशी न भवतीत्यपापकाशिनी ।
गिरौ कैलासे स्थित्वा नित्यं माणिभ्यो यः शं सुखं तनोति स गिरिशंतस्तस्प
संबोधन हे गिरिशंत । तथाविध हे रुद्र शंतमयाऽतिशयेन सुखकारिण्या तथा
तनुवाऽभिचाकशीहि माममिलक्ष्य प्रकाश कुरु । एतादृशीं त्वदीयो तमुं प्रकाश्य
मां सुखिनं कुर्वित्यर्थः । अथ चतुर्थीमृचमाह -
 
यामिषुमिति । हे गिरिशंत यामिषु बाणमस्तवे वैरिषु प्रक्षेप्तुं हस्ने बिभर्ति ।
कैलासाख्यं गिरिं त्रायते पालयतीति गिरित्रस्तत्संबोधनं हे गिरित्र । तथाविध
हे रुद्र तां हस्ते घृताभिषु शिवापस्मासु शान्तां कुरु । पुरुषमस्मदीयं मनुष्यं
जगम्मनुष्पम्पतिरिक्कमपि जङ्गम गवादिकं मा हिंसी: । अथ पञ्चमीमाह-
शिवेन वचसेति । गिरौ फैलासे रोते तिष्ठतांति गिरिश: । हे गिरिश
स्वाम॰च्छ प्राप्तुं शिवेन मङ्गले स्तुतिरूपेण वचसा बदामसि वयं प्रार्थयामहे ।
यथा येन प्रकारेग नोऽस्मदीयं सर्वभिज्जगत्सर्वमपि मनुष्यपश्चादिकं जङ्गमजात-
मयक्ष्मं रोगरहित सुमना असस्तीमनस्योपेतं भवति तथा कुरु । अथवीमाह-
अध्यवोचदिति । यो रुद्रोऽधिवक्ताऽधिकोऽयमित्येवं सर्वेषामति
बतु क्षमस्तेनो के सति मम सर्वाधिक्यं तदानीमेव सिध्यति । अतस्ताइयो
रुशेऽपवोचमां सर्वाधिकं वदतु । कीशोडविवक्ता, प्रथमो देवानां मध्ये
मुख्यो दै॰पः सर्वान्देवानर्हति स्वयं पातुंक्षम इत्यर्थः । भिषगेतस्य
 
१. क. भावव