2022-09-04 11:01:35 by Arsha upakAra
This page has been fully proofread once and needs a second look.
१९७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्डे -
(चित्यग्निहोमोक्ति: )
( अथ चतुर्थकाण्डे पञ्चमप्रपाठके पथमोऽनुवाकः ) ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
इष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः ।
रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते ॥
कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते ।
ज्ञानहेतुत्वमप्यस्ये सर्वोपनिषदीरितम् ॥
किंजप्येनामृतत्वं नो बृहीत्युक्तो मुनिजंगौ ।
शतरुद्रीय केणेति जाबाला <flag>आमनन्वि</flag> हि ॥
स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम् ।
बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते ॥
इह कर्माङ्गता यादृग्वर्णिता बाह्मणेन ताम् ।
बोध्दुं शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा ॥
कल्प:- " शतरुद्रीयं जुहोति जर्तैिलयवाग्वा वा गवीधुकयवाग्वा वा जर्ति -
लगवीधुकत्तक्तभिर्वा कुशयव सर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ्
तिष्ठन्नुत्तरस्य पक्षस्य उत्तरापरस्यां सक्त्यां विकर्ण्यो स्वयमातृण्णायामनुप-
रिचारं ( कामं ) वा नमस्ते रुद्र मन्यव इत्येताननुवाकास्त्रेधा विभष्यापि वा
प्रथमादुपक्रम्य नमस्तक्षम्य इति जानुदघ्ने धारयमाणो रथकारेभ्य इत्युपक्रम्य
नमः स्वायुधायेति नाभिदघ्ने शेषेण प्रागवसामेभ्य आस्यदघ्ने हुत्वा सहस्राणि
सहस्रश इति दशावदानानि हुत्वाऽन्वारोहाञ्जुहोति नमो रुद्रेभ्यो ये पृथिव्या-
मिति जानुदघ्ने धारयमाणो नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो
ये दिवीत्यास्यदघ्ने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यवरोहान्हु-
त्वा संचरे पशूनामर्कपर्णमुदस्पति यं द्विष्यातस्य संचर इति " इति ।
तत्र प्रथमानुषाके प्रथमामृचमाह--
नमस्ते रुद्रेति । हे रुद्र ते त्वदीयो यो मन्युः कोपस्तस्मै नमोऽस्तु ।स
मन्युरस्मद्वैरिष्वेव प्रसरतु नत्वस्मासु । उतापि च ते तवेषवे नमः । त्वदीयाय
१ ख. °स्य तथोप॰ । २ ख. च. ° त्युक्ते मु° । ३ ख. च. प्तत् । ४ ख. च. वा जुहुया.
जर्ति' ।घ. ङ. वा. स । ५ ख. च. तिलैर्गवी° । ६ क. पक्षस । ७ घ. ङ. आरम्याऽऽस्य° ।