This page has not been fully proofread.

प्रपा ० ५अनु० १०] कृष्ण यजुर्वेदीयतैत्तिरीय संहिता ।
(चित्यहिोमोक्तिः )
 
यस्मादेवं विश्वाहमेषजी सर्वेष्वह:सु रोगदारिश्रादेरौषध व द्विमा शहेतुसम्मा-
च्छिवा। किंच, यस्माद्रुदस्य तादात्म्यपाप्तये मेषज्यौषधरूपा ज्ञानप्रदानेन
जन्ममरणादिदुःखं निवारयति तस्मादप्येषा शिवा । अथ तृतीपामाह-
इमा रुद्रायेति । यथा येन प्रकारेण नोऽस्मदीयाय द्विपदे पुत्रपौत्रादि-
रूपाप मनुष्याय चतुष्पदे गोमहिष्यादिरूपाय पशवे च शमसत्सुखं स्यात् ।
किंचास्मिन्ग्रामे विश्वं सर्वे प्राणिजातं पुष्टं सुखपूर्ण मनातुरमुपद्रवरहितं च यथा
भवति तथा वयं रुद्राय रुदार्थ इमां मतिं पूजाध्यानादिविषयां बुद्धि प्रभरामहे
प्रकर्षेण पोषयामः । कीदृशाय रुवाय, तबसे बलयुक्तायाम्मदपेक्षितं कर्तुं सम-
येत्यर्थः । कपर्दिने जटाबश्वयुक्ताय तापसवेषायेत्यर्थ: । क्षयद्वीराय क्षीय
माणमतिपक्षपुरुषायान्यथाभानरूपपा सविना हेतव इत्यर्थ: । अथ चतुर्थीमाह-
मृडा नो रुद्रोतेति । हे रुद्र नोऽस्मान्मृडयेह लोके सुखय । उतापि च
मोऽस्माकं परलोकेऽपि मयः सुखं कृधि कुरु । क्षयद्वीराय क्षपितास्मदीयपापाय
ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम । पिता पालको मनुः प्रजापतिः शं
च सुखं च पोश्च दुःखपृथग्भावं च यदायजे यत्किचित्संपादित वांस्तत्सर्वे वयं
हे रुद्र तब प्रणीतौ प्रणये स्नेहातिशये सत्यश्याम पाप्नुषाम । अ
पश्चमीमाह-
मा नो महान्तमिति । हे रुद्र नोऽस्मदीयं महान्तं स्थावरं पुरुषं मा
रीरिषो मा हिंसी: । उतापि नोऽस्मदीयमभकं बालं मा रीरिषः । किं
नोऽस्मदीयमुक्षन्तं सेचन समर्थ युवानं पुरुषं मा रीरिष: । उतापि च नोऽस्मदीय-
मुक्षितं गर्भस्थं पुरुषं मा रीरिष: । नोऽस्मदीयं पितरं मा बधीः । उतापि च
मातरं मा बधी: । नोऽस्मदीयाः मियाश्च तमुवः शरीराणि मा रीरिषः । अथ
षष्ठीमाह-
मा नस्तोक इति । हे रुद्र नोऽस्मदीये तोकेऽपत्यमांत्रे तनये विशेषतः पुत्रे
मा रीरिषो हिंसां मा कुरु । नोऽस्मदीय आयुषि मा रीरिष: । नोऽस्मदी-
येषु गोषु मा रीरिषः । नोऽस्मदीयेष्वश्वेषु मा रीरिष: । भामितः क्रुद्धः सो-
अस्मदीयान्वीरान्मत्यान्मा बधीः । वयं हविष्मम्तो हविर्युकास्ते तुम्पं ममसा
नमस्कारेण विधेम परिचरेम । अथ सप्तमीमाह -