This page has been fully proofread once and needs a second look.

पपा० ५अनु०८]
 
(चित्यग्निहोमोक्तिः )
 
कृष्ण यजुर्वेदीयतैत्तिरीयसंहितां ।
 
नम॑ उ॒ग्राय॑ च भीमाय॑ च॒ नमो॑ अग्रेवधाय
च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
नमो॑ वृक्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्त॒राय॒ मम॑ः
शंभव च मयोभवे च॒ नमः॑ः शंक॒राय॑ च मय-
स्कराय च नमः शिवाय च शिवतराय च
( १ ) नमस्तीथ्य च कूल्या॑य च नमः
पार्याय चावार्याय च नमः प्रतरंणाय चोत्तरं-
णाय च नर्म आतार्याय चाऽऽलाबाय च
नमः शष्याय च फेन्याय च नमः सिकत्याय
च प्रवाह्य च ( २ ) ॥
 
-
 
( शिवतराय च त्रिश्च॑ ) ।
 
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
 
१९६१
 
( अथ चतुर्थकाण्ड पञ्चपाठमोवाकः ) ।
सप्तमेऽनुवाके यान्यम्यतरलोभमस्काराणि यजूंष्युक्तानि तेभ्योऽन्यानि का ने-
चिदन्यतरतोनमस्काराण्यष्टमेऽनुवाके कथ्यन्ते ।
 
तत्र विद्यमानानि सप्तदश यजूंष्याह----
 
नमः सोमाय चेति । उमया सह वर्त इति सोमः । रुत्रोदनहेतुर्दुःखं
तद्भावयति विनाशयतीति रुद्रः । आदित्यरूपेजोदयकालेऽत्यन्तं रक्तस्तात्रः ।
उदयादूर्ध्वमीषद्कोऽरुणः । शं संगम मानीति संगः । पशूनां पाल-
यिता पशुपतिः । पिरोधिनो नाशयितुं क्रोधयुक्त उमः । दर्शनमात्रेण विरो-
विनां भयहेतुर्भीम: । अग्रे तुरतो षधोऽस्येत्यवः । एवं दूरेवधः । पुरतो दूरे
वा वर्तमानं विरोधिनमनाया सेनैव हन्तीत्यर्थः । लोकेऽपि यो यत्र विरोधिनं
इन्ति तत्र तद्भुपेगावमेव हन्ता । अत प्रवेश्वरेणार्जुन मस्युक५--
• मयैवैते निहताः पूर्वमेव निमिचमात्रं भव सव्यसाचिन् ' इति ।