This page has been fully proofread twice.

प्रथर॑थ॒मो दैव्यो॑ भि॒षक् । अहिहीꣳ॑श्श्च॒ सर्वावा॑न्ज॒म्भ-
य॒न्त्सर्वा॑श्च यातु॒धान्यःतुधा॒न्यः॑ । अ॒सौ यस्ता॒म्रो अ॑रु॒ण
उ॒त ब॒भ्रुः स॑सु॑म॒ङ्गलः॑ । ये चे॒माꣳ रुरु॒द्रा अ॒भितो॑
दि॒क्षुः ( २ ) श्रि॒ताः स॑हस्र॒शोऽवै॑षाषा॒ꣳ हेड॑
ईमहे । अ॒सौ योयो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑-
हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नद्द॑दृ॑शन्नुदहा॒र्यःयः॑
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ।
नमो॑ अस्तुतु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मीडुमी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्योयो॑ऽकरं॒ नमः॑ ।
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयोयो॒रार्त्नियोनि॑यो॒र्ज्याम् । याश्च॑
ते॒ हस्त॒ इष॑वः ( ३ ) परा॒ ता भ॑गवो वप ।
अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑
श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्योयो॒ बाण॑वाꣳउ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑
हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मा-
न्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ ब्भुज । नम॑स्ते
अ॒स्त्वायु॑धा॒याना॑तताय घृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त
तेते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने । परि॑ ते॒ धन्व॑नो
हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धि-
स्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ( ४ ) ॥
 
( हस्ते॑ दिदि॒क्ष्विष॑व उ॒भाभ्यां॒द्वाविꣳ॑शतिश्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥