This page has been fully proofread once and needs a second look.

१९९० श्रीमत्सायणाचार्यविरचितभाष्यसमैता- [४ चतुर्थकाण्ड-
( चित्याग्रहोमोक्तिः )
 
नमो दुन्दुभ्यायेति । दुन्दुभौ भैयाँ भवः शब्दो दुन्दुभ्य: । आहन्यते ताडय-
तेऽनेनेत्याइननं दुन्दुभ्याघातार्थो दण्डस्तत्र ताडनरूपेणोत्पन्न आहनन्यः । धृष्ण-
र्युद्धे पळायनरहितः । प्रमृशः परसैन्यवृत्तान्तपरामशंकः । दूतस्तद्वृत्तान्तज्ञापनकु-
शलः। प्रहितः स्वामिना प्रेषितः पुरुषः । निषङ्गने खड्गयुक्तः इषुधिमान्बाणाधार-
युक्तः । तीक्ष्णा इषवो यस्पासो तीक्ष्णंषुः । बहून्यायुधानि यस्य सन्तोत्यायुधी ।
शोभनमायुधं त्रिशूलरूपं यस्यासौ स्वायुधः । शोभन धन्य पिनाकरूपं
यस्यासौ सुधन्वा । स्रुतिः पादसंचारमाजयोग्यः क्षुद्रमार्गस्तमहंतीति सुत्यः ।
पन्था रथाश्वादिसंचारक्षमः प्रौढो मार्गस्तमहंतीति पथ्पः । कुत्सितमति जल-
मत्रेति काटोऽल्पप्रबाहयोग्य: कुल्या प्रदेशस्तत्र जलरूपेण भवः काटयः । पस्मि-
न्मदेशे पर्वताम्राज्जलं म्यग्भावेन पतति स प्रदेशो नीपस्तत्र जलरूपेणावस्थितो
मीप्यः । सूदः कर्दमप्रदेशस्तत्रत्यजलरूपः सूद्यः । सर: प्रसिद्धं, तत्रत्यजलरूपः
सरस्पः । नदीगतजलरूपो नाद्यः । अल्पसरो वेशन्तस्तत्रत्पजलरूपो वैशन्तः ।
कूपस्थजलरूपः कूप्पः । अवटस्थजलरूपोऽवटयः । वर्षजलरूपो वः । वर्ष-
निरपेक्षजलरूपोऽवर्ण्यः । मेघषु स्थितो मध्य विद्युत सहं चरतीति विद्युत्यः ।
ईधं निर्मलत्वेन दीप्यमानं शरदर्भ तत्र भव इंधियः । आतपेन सह वृष्ट
आतप्य: । वातेन सह वृष्टो वात्यः । रिष्यन्ति विनश्यन्ति भूतान्यत्रात रेष्मः
मलयकालस्तत्र भवः शर्करापाषाणादिसहितो वृष्टिजलविशेषो रेष्मियः । वस्तु
धनं ( न ) गवाधादिपदार्थरूपं तत्र तत्कार्यरूपेणावस्थितो वास्तव्यः । गृह-
निर्माणार्था भूमिर्वास्तुं तत्पालको वास्तुपः ॥
 
इति श्रीमत्सायणाचार्यविरचिते माधवीये वदार्थप्रकाशे कृष्णयजुर्वेदी -
यतैनिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चममपाठ के
सप्तमोऽनुवाकः ॥ ७ ॥
 
( अथ चतुर्थाष्टके पञ्चममपाठ केऽष्टमोऽनुवाकः) ।
नमः सोमाय च रुद्राय च नम॑स्ताम्राय॑
चारुणाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशुपतये च
 
१ ख. च. खङ्गहस्तः । २ ख. च ह चरितो वि । ३ ख. च. 'स्तुस्तत्वा ।