This page has been fully proofread once and needs a second look.

पा० ५अनु०५] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
 
( चित्यग्निहोमोक्तिः )
 
नमो गृत्सेभ्य इति । गर्धनशीला गृत्सा विषयलम्पटा इत्यर्थः । तेषां
पालका गृत्सपतयस्तेभ्यो नमः । अथ चतुर्थं यजुराह--
नमो व्रातेभ्य इति । नानाजातीयानां संघा वातास्तेषां पालका वातपत-
यस्तेभ्यो नमः । अथ पञ्चमं यजुराह--
नमो गणेभ्य इति । देवस्यानुचरा भूतविशेषा गणास्तेषां पालका
गणपतयस्तेभ्यो नमः । अथ षष्ठं बजराह --
 
नमो विरूपेभ्य इति । विरूपा विकृतरूपा नग्नमुण्डादयः । विश्वरूपा-
स्तुरंगगजवक्त्रादिनानाविधरूपवारिणो मृत्यास्तेभ्यो नमः । अथ सप्तमं यजुराह-
नमो महद्भ्य इति । अणिमाता महान्तस्तवहिताः क्षुल्लका-
स्वेभ्यो नमः । अथाष्टमं यजुराह-
नमो रथिभ्य इति । रथमारूढा रथिनस्तद्रहिता अरथास्तेभ्यो नमः ।
अथ नवममारम्य सप्तदशपर्यन्तानि स्पष्टार्थानि यजूंष्पाइ-
नमो रथेभ्य इति । पक्षिपुञ्जानां घातका: पुञ्जिष्टाः । मत्स्यघातिनो
निषाद: । शनां गलेषु बद्धानां पाशानां धारकाः श्वनयः । अत्र द्वितीयानुवाको
जीलार्थदेवता मूर्तिमाघान्येन स्तोतुं प्रवृत्तः
स्तोतुं प्रवृत्तः । तृतीयानुवाकश्चोरमूर्तिप्राधान्येन
स्तोतुं प्रवृत्तः । चतुर्थोऽनुवाको नानाजातिमूर्तिमाधान्येनेति विभागों द्रष्टव्यः ॥
इति श्रीमत्सायणाचार्यविरचिते भाववीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय -
तैत्तिरीयसंहिताभाव्ये चतुर्थकाण्डे पश्चममपाठ के
चतुर्थोऽनुवाकः ॥ ४ ॥
 
९४६
 
Haba
 
( अथ चतुर्थाष्टके केमोनुवाकः ) ।
नमो॑ भवाय॑ च रु॒द्राय॑ च॒ नमः॑ः शर्वाय॑ च
पपत॑ये च॒ नमः॑मो॒ नील॑ग्रीवाय च शितिक-
ण्ठय च॒ नम॑ः कपर्दिने॑ च व्युप्तकेशाय
मर्मः सहस्राक्षाय॑ च श॒तर्धन्वने च नमो॑ गिरि-