This page has been fully proofread once and needs a second look.

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [४ चतुर्थकाण्डे-
(चित्यग्निहोमोक्ति: )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तौ
-
तै
त्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके
द्वादशोऽनुवाकः ॥ १२ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।
पुमर्थोश्चतुरो देयाद्विध्द्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्विद्यातीर्थ महेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्री वीरबुक्क महाराजस्याSSऽऽज्ञापरिपालकेन माधवाचार्येण विर-
च्चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥
 
( अथ चतुर्थाष्टके पश्ञ्चमः प्रपाठकः ) ।
( तत्र प्रथमोऽनुवाक: ) ।
 
ह॒रिः॒ ॐ ।
 
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ।
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शंता॒भि चा॑-
कशीहि । यामिषुं॑ गिरिशंत॒ हस्ते॑ ( १ )
बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा
हि॑ꣳसीः॒ पुरु॑षं॒ जग॑त् । शि॒वेन॒ वच॑सा त्वा॒
गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑-
दय॒क्ष्मꣳ सु॒मना॒ अस॑त् । अध्य॑वोचदधिव॒क्ता