This page has not been fully proofread.

[ न० प्र० अ० ]
 
रुद्राध्यायः ।
 
भिधानो बुभुजे। एवं स्वामिमतविविधवेषविग्रहपरिग्रहेण क्रीडतो देवदेवस्य
लीलायितमिदं विश्वं वर्तते । अतो वैश्वरूप्येण स्तुत्वा नमस्करोति । यथोक्तम् ।
"चरितानि विचित्राणि गुह्णानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो
ऽसि शर" इति ॥
 

 
॥ तत्र प्रथमानुवाके प्रथमामृचमाह ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।
नम॑स्ते अस्तु॒ धन्व॑ने ब॒हुभ्या॑मु॒त ते॒ नमः॑ःमः॑ इति ॥१॥
नमः॑ ते रु॒द्रो॑ म॒न्यवे॑ उ॒तो॒इति॑ ते॒ इष॑वे॒ नमः॑ः । नम॑ ते॒ अ॒स्तु धन्व॑ने बा॒हुभ्यामिति॑ ब॒हुभ्याम् उ॒त ते॒ नमः॑ ॥ १ ॥
 
सा० भा० हे रुद्र ते त्वदीयो यो मन्युः कोपः तस्मै नमोऽस्तु । स मन्युरस्म-
द्वैरिष्वेव प्रसरतु नत्वस्मासु । उतो अपि च ते तव इषवे नमः त्वदीयाय बा-
णाय नमोऽस्तु । तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु । उत अपि च ते
बाहुभ्यां त्वदीयाभ्यां धनुर्बाणोपेताभ्यां हस्ताभ्यां नमोऽस्तु । एतत् सर्व
वैरिष्वेव प्रवर्तताम् न तु मयीत्यभिप्रायः ॥ १॥
 
म० मा० भा० ॐ नमस्ते रुद्र मन्यव इत्यस्य कश्यप ऋषिः । रुद्रो देवता । अनु-
हुप्छन्दः । प्रत्यक्षकृता एतदादयः पञ्च मन्त्राः ॥ ॐ स्वाहा स्वधा वषण्णम इति-
पञ्च ब्रह्मणो नामानि । वामनःकायैराराध्याधीनात्मत्वसम्पादनं ब्रह्मत्वापरना-
मधेयं नमः शब्दार्थः । हे रुद्र तव स्वभूताय मन्यवे क्रोधाय नमोऽस्तु । अस्तित्व
तिवक्ष्यमाणमन्त्रादनुषज्यते । रोदयति सर्वमन्तकाले इति रुद्रः । रोदणिर्लुक्चेति
रक्प्रत्ययः । पौराणिकादयस्तु बहुधा वदन्ति । रुतौ नादान्ते द्रवति द्रावयतीति
वा रुद्र इति केचित् । पृषोदरादित्वाद्यथाभिमतप्रत्ययविकारार्थविशेषलाभः ।
रुत्या वेदरूपया धर्मादीनवलोकपति प्रापयतीति वा रुद्र इत्यन्ये । रुत्या
वाग्रूपया वाच्यं प्रापयतीति केचित् । रुत्या प्रणवरूपया स्वात्मानं प्रा-
पपतीति इतरे । रुद्रो रौतीति सत्ये रोरूयमाणो द्रवति प्रविशति मर्त्यानिति
रुद्र इत्यन्ये । यथा । "त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्या : आ
विवेशे"ति । अन्ये ब्रुवते । रुक्तेजः लुबकारेकाररेफाश्चेति । भूम्नि नित्ययोगे वा र
प्रत्ययः । वर्णव्यावृत्या रुद्रस्तेजस्वीति । यद्वा । रोधिका बन्धिका मोहिका वा
शक्तिस्तद्वांस्तस्या द्रावपिता वा भक्तेभ्यो रुद्रः । रुदं संसारदुःखं द्रावयती-
Digitized by
 
Google