This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
॥ अथ रुद्राध्यायः ॥
 
सायणाचार्य भट्टभास्कर भाष्यसहितः ।
 
श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥ श्रीमातापितृ-
भ्यां नमः ॥ श्रीमद्भ्य एकादशरुद्रेभ्यो नमः ॥
 
हरिः ॐ
 
सायणाचार्यकृत उपोद्घातः
 
यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
इष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः ।
रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते ॥ २॥
कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते ।
ज्ञानहेतुत्वमप्यस्य तथोपनिषदीरितम् ॥ ३ ॥
किं जप्येनाऽमृतत्वं नो ब्रूहीत्युक्तो मुनिर्जगौ ।
शतरुद्रीयकेणेति जाबाला आमनन्ति हि ॥ ४ ॥
स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम् ।
बह्वस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते ॥ ५॥
इह कर्माङ्गता यादृग्वर्णिता ब्राह्मणेन ताम् ।
बोद्धुं शब्दार्थमात्रस्य विवृतिः क्रियते स्फुटा ॥ ६॥
 
कल्पः । शतरुद्रीयं जुहोति जर्तिलयवाग्वा वा गवीधुकयवाग्वा वा जर्ति-
लैर्गवीधुकसक्तुभिः कुशयवसर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ्
तिष्ठन्नुत्तरस्य पक्षस उत्तरापरस्यां <flag>स</flag>क्त्यां विकर्ण्यां स्वयमातृण्णायामनुपरि-
चारं वा । नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभज्यापि वा प्रथमादुप-