2025-05-27 08:15:36 by devadatta
This page has not been fully proofread.
ॐ नमः परमात्मने ।
ऋग्भिः 'स्तुवन्ति यजुर्भिर्यजन्ति सामभिर्गायन्ति' इत्युक्तेर्यजनार्थकस्य यजुर्वेदस्य
पञ्चमोऽयमध्यायः 'रुद्राध्याय ' इत्युच्यते । चतुर्थेऽध्याये सर्वा इष्टकाचितय उक्ताः
। रुद्राध्यायसंज्ञकेऽस्मिन्पञ्चमेऽध्याये चित्यभौ होम उच्यते । अस्य च कर्मका-
ण्डे पाठात् कर्माङ्गत्वम् । तथा च श्रुतिः-
'रुद्रो वा एष यदभिः । स एतर्हि जातो या सर्वश्चितः ' स यथा
वत्सो जातः स्तनं प्रेप्सत्येवं वा एष एतर्हि भागधेयं प्रेप्सति ।
तस्मै यदाहुतिं न जुहुयादध्वर्युं च यजमानं च ध्यायेच्छतरु-
द्रीयं जुहोति भागधेयेनैवैनं शमयति । नार्तिमार्च्छत्यध्वर्युर्न यजमानः '
इति । स्मृतिरपि—
' चमकं नमकं चैव पौरुषं सूक्तमेव च ।
नित्यं त्रयं प्रयुञ्जानो ब्रह्मलोके महीयते ' ॥
इति । याज्ञवल्क्योऽपि—
' सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः ।
सहस्रशीर्षाजापी च मुच्यते सर्वकिल्बिषैः' ॥
इत्यादिभिरस्य कर्माङ्गत्वं प्रसिद्धमेव भवति । जाबालोपनिषदि ज्ञानहेतुत्वमप्यस्यं
श्रूयते । तथा च ब्रह्मचारिभिः ' किं जप्येनामृतत्वमश्नुते!' इति पृष्टो याज्ञवल्क्य
आह 'शतरुद्रीयेण ' इति । ' एतानि ह वा अमृतस्य नामधेयानि भवन्ति
एतैर्ह वा अमृतो भवति' इति । कैवल्योपनिषदि — ' यः शतरुद्री यमधीते सोऽ-
मिपूतो भवति' इत्यादिभिः । स्मृतयोऽपि ।
' सततं रुद्रजाप्योऽसौ परां मुक्तिमवाप्स्यति' ॥
इत्यादयो बहुव्यः । एवं कर्माङ्गत्वज्ञानहेतुत्वाभ्यां विषयिभिर्मुमुक्षुभिश्वावश्य-
मादरणीयोऽयं रुद्राध्यायः । वर्तते चास्य सर्वत्र पठन-पाठनप्रचारो विशेषतया
दाक्षिणात्येषु । यद्यपि केवलं पाठमात्रेणाप्ययमिष्टफलदो भवत्येव तथापि —
' उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विससे जायेव पत्य उशती सुवासाः ' ॥
इत्यादिषु वेदार्थाभिज्ञस्य प्रशंसोक्ते:-
'यद्गृहीतमविज्ञातं निगदेनैव शब्दयते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ' ॥
-
Digitized by