रामचरितम् /97
This page has not been fully proofread.
अष्टमः सर्गः ।
तदनु प्रथमाप्तमप्यदत्त स्नपितं प्रत्यवलोकमश्रुपूरैः ।
मणिनपुरमुद्धुरार्तिमुक्तश्वसितम्लापितैनायकांशुजालम् ॥ २० ॥
कपिराजसमर्पितं च गाढस्वपरिष्वङ्गतरङ्गितं दिदेश ।
अभिकामसुगन्धि सान्द्रसार्द्रस्तनविच्छित्तिकलङ्कमुत्तरीयम् ॥ २१ ॥
स बहूक्तवधूविशेषचिह्नो निजचिह्नानि च कानिचित्प्रदाय ।
उपयुक्तमवोचदाञ्जनेयं प्रचयावर्जितसर्वपूर्ववृत्तः ॥ २२ ॥
इति तामभिलक्ष्य लक्षणौघैरनघामर्पितमद्विशेषचिह्नः ।
वद वीर वितर्कलोलचित्तामिदमग्रे विनयेन संनिपत्य ॥ २३ ॥
नरदेवि निरस्यतां वितर्कः प्लवगः पावनिराख्यया हनूमान् ।
प्रहितः प्रभुसौहृदादहं ते समवस्थाधिगमाय राघवेण ॥ २४ ॥
विपिनात्पिशिताशिना हृतायां त्वयि सुग्रीव इति प्रियस्य तेऽभूत् ।
कपिरात्मसमोऽवलम्बयष्टिर्विरहान्धस्य कबन्धशिष्टसारः ॥ २५ ॥
भुवि सप्तसमुद्रमेखलायामभिषिक्तस्तव हेतुना स तेन ।
विनिहत्य बिडौजसस्तनूजं मनुजेन्द्रस्य सुतेन भानुपुत्रः ॥ २६ ॥
अतिरिक्तबलेन वालिनाऽसौ सहनीयक्रमलङ्घनापराधः ।
रिपुवत्परिभूय राज्यलोभाद्दृढसौभ्रात्रगुणच्छिदाऽपविद्धः ॥ २७ ॥
प्रसभात्तपरिग्रहः स तेन क्रमविच्छिन्नसमस्तराज्यचिह्नः ।
विपिनाद्विपिनं व्रजन्मनस्वी न वियुक्तः सचिवैः परं चतुर्भिः ॥ २८ ॥
अकुतोभयमध्युवास दीर्घे गिरिमारात्पतितासुरेन्द्रकायम् ।
रुधिराहतिरुष्टसिद्धशापप्रतिरुद्धारिचमूकमृश्यमूकम् ॥ २९ ॥
हतहेमचमूरुणा मुमूर्षोः पितृमित्राद्वयसः श्रुतान्वयेन ।
धुतयोजनबाहुवैकृतेन प्रभुणा ते समनन्तरं समेतः ॥ ३० ॥
कथमप्यनघे तपस्विना ते नवमेघोदयदारुणान्यहानि ।
निहतारिममुं विसृज्य सद्यः शिखरे माल्यवतोऽतिवाहितानि ॥ ३१ ॥
स पुनः कृतवेदिनोपसेदे शरदि व्यक्तविशेषलाञ्छनायाम् ।
उपनीतसमस्तयूथपेन प्लवगेन्द्रेण दिशां गवेषणाय ॥ ३२ ॥
१D श्यामल । २D हृश्य ।